________________
३२४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे पन्तरेणेत्यर्थः, वक्ष्यति च-सहिए दुक्खमायाए तेणेव य पुट्ठो नो झंझाए । चतुर्थोद्देशके त्वयमर्थाधिकारो यथा-कषायाणां वमनं कार्यम् पापस्य च कर्मणो वितिः, विदुषः विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपक श्रेणि
एक माप्तके वलभवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः ।।१९९-२००।। , नानिष्पन्ने तु निक्षेपे शीतोष्णीयम्, अत: शीतोष्णयोनिक्षेपं निर्दिदिक्षुराह
नामं ठवणा सीयं दव्वे भावे य होइ नायव्वं । एमेव य उण्हस्स वि चउब्विहो होइ निक्खेवो ॥२०१॥
नामं ठवणा इत्यादि । सुगमा ॥२०१॥ तत्र नाम-स्थापने अनादृत्य यशोतोष्णे दर्शयितुमाह
दव्वे सीयलदव्वं दव्वुण्हं चेव होइ उण्हं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥२०२॥
दव्वे इत्यादि । ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद् द्रव्यं द्रव्यप्राधान्यात्, शीतलद्रव्यमेव द्रव्यशीतं हिम-तुषार-करक-हारादि । एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा पुद्गलाश्रितं “जीवाचितं च गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणः, गुणस्य प्राधान्यविवक्षयेति । एवं भावोष्णमपि । जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः षड् भावाः । तत्रौदयिक: को दयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षण उष्णः । औपशमिक: कर्मोपशमावाप्तसम्यक्त्वविरतिस्वरूपः शीतः । क्षायिकोऽपि शीत एव,
१. ०मादाय णो वुद्धो (ट्ठो ? ) णो सं( झं)ज्झाए ख, ०मादाय तेणेव य पुट्ठो च। २. त्वयमधिकारो क पुस्तक मृते । ३. दमनं ख । ४. च इति खपुस्तके न । ५. शीतोष्णीयमध्ययनम्, अतः घ ङ । ६. वि निक्खेवे( वो ) चउव्विहो होति ञ । ७. ठवणेत्यादि ग । ८. चेव उण्हदव्वं तु ख ज ठ, चेव उण्हदव्वं च ज । ९. य ठ । १०. पोग्गल० छ ज झ ञ । ११. हिम-करक-तुषार-हारादि ख, हिम-तुषार-क-हारादि ग । १२. ०करकादि क च, कर-हारादि घ । १३. शीतगुणः ख । १४. ०स्य च प्राधान्य० घ ङ। १५. शीतः, क्षायिक० ख ।