________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३२३
उक्तं द्वितीयमध्ययनम् । साम्प्रतं तृतीयमारभ्यते । अस्य चायमभिसम्बन्धः-तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि यथा-शीतोष्णयोरनुकूलप्रतिकूलपरीषहयोरतिसहनं कर्तव्यम्, तदधुना प्रतिपाद्यते । अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोम-प्रतिलोमाः परीषहाः 5 प्रादुःषन्ति, तेऽविकृतान्त:करणेन सम्यक् सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम् । अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमेऽर्थाधिकारो द्वधा । तत्राप्यध्ययनार्थाधिकारोऽभिहितः । उद्देशार्थाधिकारप्रतिपादनार्थं तु नियुक्तिकार आह
पढमे सुत्ता अस्संजय त्ति बिइए दुहं अणुहवंति । तइए ण हु दुक्खेणं अकरणयाए व समणो त्ति ॥१९९॥ उद्देसम्मि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरई उ विउणो उ संजमो ऐत्थ मुक्खु त्ति ॥२००॥
पढमे इत्यादि । उद्देसम्मि इत्यादि । प्रथमोद्देशकेऽयमाधिकारो यथा 15 भावनिद्रया सुप्ताः सम्यग्विवेकरहिताः, के ? असंयताः गृहस्थाः, तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा-जरामच्चुवसोवणीए नरे इत्यादि । द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा-कामेसु गिद्धा निचयं करेंति । तृतीये तु 'न हु' नैव दुःखसहनादेव केवलात् श्रमणः अकरणतयैव अक्रिययैव संयमानुष्ठान- 20
10
१. तस्य क, अस्यायमभि० ख । २. ०परिषह० ङ। ३. चित्प्रतिलोमा-ऽनुलोमाः ख च । ४. परिषहाः प्रादुःष्यन्ति ग । ५. भवन्ति इति खप्रतो नास्ति । ६. तत्राध्ययना० क । ७. अस्संजयंति बिइए ज, अस्संजतो( त )त्ति बीए ज । ८. ततिए ज । ९. अ छ । १०. विरईओ ख । ११. य ज । १२. इत्थ ठ । १३. मोक्खो त्ति ख छ ज, मुक्खोत्ति ज, मोक्ख त्ति झ । १४. ०मच्चूवसोमणीए नरो क । १५. ०ये तदेवासंयता क, ०ये तु तदेवासंयता घ। १६. ०ता ये भाव० ख । १७. नास्ति तद्यथा इति खप्रतो । १८. करेति घ ।