________________
३२२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् । कथम् ? सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः ।
तस्यैवंविधस्य यथोक्तगणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रति5 मोचकस्य कर्मोद्घातनखेदज्ञस्य बन्ध-मोक्षान्वेषिणः सत्पथव्यवस्थितस्य
कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद् भवति तद् दर्शयति-उद्देसो इत्यादि । उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः, स पश्यकस्य परमार्थदृशो न विद्यते । इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्ति यावत् तृतीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेप-परिहारौ चेति । 10 तानि चामूनि-बालः पुननिहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवार्तमनुपरिवर्तते । इतिः परिसमाप्तौ । ब्रवीमि इति पूर्ववत् । * [ग्रन्थाग्रम् २५००]★
उक्तः षष्ठोद्देशकः । तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः ।।
साम्प्रतं नैगमादयो नयाः । ते चान्यत्र न्यक्षेण प्रतिपादिता इति इह तु न प्रतन्यन्ते, सङ्कपतस्तु ज्ञान-क्रियानयद्वयान्तर्गतत्वात् तेषाम् तावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्यादृष्टित्वम्, अतः पङ्ग्वन्धवत् परस्परसापेक्षतयेष्ट कार्यावाप्तिरवगन्तव्येति उपरम्यते ॥
इति लोकविजयाध्ययनटीका समाप्ता ॥ छ ।
१. "चसद्दो (दा) आयसण्णं च" चूर्णो । २. कर्मोद्घाटन० ख च । ३. कुमार्ग तित्यक्षोहिंसा० ख कमार्ग चिकीर्षो० ग । ४. नरकादि० क । ५. ०मेवावर्तमन० घ ङ। ६ इति ग ङ च । ७. *नास्त्येतच्चिदान्तवर्ती पाठः क-ख-चप्रतिप । ८. प्रोक्तः ग ।।
निष्पन्न: निक्षेपश्च घ ङ। १०. तेऽन्यत्र च । ११. इति नेह प्रतन्यन्ते ख च । १२. ०त्वात् तावेव क ग घ । १३. ०कार्यावाप्तिरिति उप० ख । १४. ०ते ॥ छ ।। समाप्ता लोकविजयाध्ययनटीकेति ॥ छ । ख, ०ते ॥ छ । समाप्ता लोगविजयाध्ययनस्य टीकेति ।। छ । ग्रन्थानम्-२५०० । च १५. इति परिसमाप्ता लोकविजयटीका ॥ छ । ङ)