________________
३२१
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः
कुशलोऽत्र क्षीणघातिकर्मांशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा । छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायन्वेषकः, केवली तु पुनर्घातिकर्मक्षयाद् नो बद्धः, भँवोपग्राहिकर्मसद्भावाद् नो मुक्तः । यदि वा छद्मस्थ एवाभिधीयते कुशलः अवाप्तज्ञान-दर्शन - चारित्रो मिथ्यात्व- द्वादशकषायोपशम-क्षयोपशमसद्भावात् तदुदयवानिव न बद्धः, अद्यापि तत्सत्कर्मतासद्भावाद् नो मुक्त: 5 इति ।
एवम्भूतश्च स कुशल: केवली छद्मस्थो वा यद् आचीर्णवानाचरति वा तद् अपरेणापि मुमुक्षुणा विधेयमिति दर्शयति-से जं च इत्यादि । स कुशलो यद् आरभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानम्, यच्च नारभते मिथ्यात्वा-ऽविरत्यादिकं संसारकारणं तद् आरब्धव्यमारम्भणीयम् अनारब्ध - 10 मनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वा ऽविरत्यादेः प्राणाति-पाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात्, तन्निषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात् तन्निषेधमाह
अणाद्धं चेत्यादि । अनारब्धम् अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुः नारभेत नैं कुर्यादित्युपदेशः, यच्च मोक्षाङ्गमाचीर्णं तत् कुर्यादित्युक्तं 15 भवति । यत् तद् भगवदनाचीर्णं परिहार्यं तद् नामग्राहमाह
१४.
छणं 'छैणमित्यादि । क्षणु हिंसायाम् [पा०धा० १४६६ ] क्षणनं क्षण: हिंसनम्, कारणे कार्योपचाराद् येन येन प्रकारेण हिंसोत्पद्यते तत् तद् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् । यदि वा क्षण: अवसरः कर्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वा, आसेवनापरिज्ञया च आचरेदिति । किञ्च–लोयसन्नमित्यादि । लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा
20
"
१. तु इति खप्रतौ नास्ति । २. 'पुण विसेसणे, किं विसेसेइ ? - अन्ने वि कुसला साहू" चूर्णौ । ३. भवोपग्राहिककर्म० च । ४. स इति कप्रतावेव । ५. आचीर्णवान् यदाचरति वाख । ६ विधेयम् । से जं च ग । ७. ज्जं ख । ८. ०क्षयोपायं ख । ९ विधेयसंयमा०
ङ । १०. नारभते ग घ ङ । ११. नो ख च । १२. छणं इत्यादि ख ग । १३. ज्ञपरिज्ञया ज्ञात्वा प्रत्या० ख ग च । १४. तं ज्ञात्वा ज्ञपरिज्ञया, आसेवना० ख ग च । १५. च इति कपुस्तके नास्ति, वाचरेदिति ग घ च । १६. लोयसण्णं इत्यादि ख च ।