________________
5
३२० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
[सू०१०४] से मेधावी जे अणुग्घातणस्स खेत्तण्णे जे य बंधपमोक्खमण्णेसी । कुसले पुण णो बद्धे णो मुक्के।
से जं च आरभे, जं च णारभे, अणारद्धं च ण आरभे। छणं छणं परिणाय लोगसण्णं च सव्वसो । [ सू०१०५ ] उद्देसो पासगस्स णत्थि ।
बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवळं अणुपरियट्टति त्ति बेमि ।
॥ बीयमज्झयणं लोगविजयो सम्मत्तं ॥ से मेहावी इत्यादि । स मेधावी बुद्धिमान् यः अणोद्घातनस्य 10 खेदज्ञः अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमिति अणं कर्म, तस्य उत् प्राबल्येन
घातनम् अपनयनं तस्य तत्र वा खेदज्ञः निपुणः, इह हि कर्मक्षपणोद्यतानां सुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति ।
किञ्चान्यत्-जे य इत्यादि । यश्च प्रकृति-स्थित्यनुभाव-प्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तम् अन्वेष्टुं मृगयितुं 15 शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः ।
अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्ध-स्पृष्ट-निधत्त-निकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितम्, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति ।।
स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्ध-मोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली ? केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थस्य ग्रहणम्, केवलिनस्तहि का वार्ता ? इत्युच्यते-कुसले इत्यादि ।
१. मेहावीत्यादि ग घ ङ । २. से मेहावी बुद्धिमान् च । ३. 'मेहया धावतीति मेधावी'' चूर्णौ । ४. ०न चतुर्गतिकं ख । ५. जे इत्यादि ग । ६. अ ख । ७. छद्मस्थग्रहणम् ङ। ८. कुसलेत्यादि ग च।