________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः
३१९
पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितम्, कालतो दुःषमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्त-द्विष्ट-मध्यस्थभावापन्नम्, एवं पर्यालोच्य यथा यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या । एवमसौ धर्मकथायोग्यः । अपरस्य त्वधिकार एव नास्तीति, उक्तं च
२
जो हेउवायपक्खम्मि हेउओ आगमम्मि आगमिओ ।
सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥ [ ]
य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इति, आह च
एस इत्यादि । यो हि पुण्या - ऽपुण्यवतोर्धर्मकथासमदृष्टिर्विधिज्ञः श्रोतृविवेचकः एषः अनन्तरोक्तः वीरः कर्मविदारकः प्रशंसितः श्लाघितः । किम्भूतश्च यो भवति ? इत्याह
जे बद्धे इत्यादि । यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचको धर्मकथोपदेशदानादिना, स च तीर्थकृद् गणधर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । क्व पुनर्व्यवस्थितान् जन्तून् मोचयति ? इत्याहउड्डमित्यादि । ऊँर्ध्वं ज्योतिष्कादीन्, अधः भवनपत्यादीन्, तिर्यग्दिक्षु मनुष्यादीनिति । किञ्च–
99
१२
से सव्वओ इत्यादि । स इति वीरो बद्धप्रतिमोचकः सर्वतः सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः सर्वसंवरचारित्रोपेतो वा । स एवम्भूतः कं गुणमवाप्नोति ? इत्याह
न लिप्पईत्यादि । न लिप्यते नावगुण्ठ्यते, केन ? क्षणपदेन हिंसास्पदेन प्राण्युपमर्दजनितेन, क्षणु हिंसायाम् [पा०धा० १४६६] इत्यस्यैतद्रूपम्, कोऽसौ ? वीर इति । किमेतावदेव वीरलक्षणमुतान्यदप्यस्ति ? इत्याह
१. धर्मकथायोगः ग । २. हेउपक्खवायम्मि हेउओ आगमे य आगमिओ ख । ३. एव ग च । ४. इत्याह ख ग । ५ इत्याह च क । ६. बद्धेत्यादि ङ । ७. स्नेहादिनिगडादिना च । ८. ०पदेशनादिना च । ९. उड्डुं इत्यादि ख, उद्धं इत्यादि च । १०. ऊर्द्ध ख ग च । ११. तिर्यक्षु मनु० ख चप्रती विना । १२. किञ्च इति ङपुस्तके न वर्तते । १३. " लिप्पति ति जुज्जति" नृण । १४. न गुण्ठ्यते क । १५. केन इति ङप्रतौ नास्ति । १६. क्षणपदेन गआदर्शों विना । १७. क्षण क- प्रती ऋते । १८ इति इति क-गप्रत्योर्न ।
5
10
15
20