SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३१८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे एवमविधिकथनेनेहैव तावद् बाधा, आमुष्मिकोऽपि न कश्चिद् गुणोऽस्तीति, आह च एत्थं पि इत्यादि । मुमुक्षोः परहितार्थं धर्मकथां कथयतस्तावत् पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापि धर्म5 कथायामपि श्रेयः पुण्यमित्येतन्नास्तीत्येवं जानीहि । यदि वाऽसौ राजादि रनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । किम् ? इत्याह-एत्थं पीत्यादि । यद् यद् असौ पशुवध-तर्पणादिकं धर्मकारणमुपन्यस्यति तत् तद् असौ धर्मकथिकः 'अत्रापि श्रेयो न विद्यते, * अत्रापि श्रेयो न विद्यते ★ इत्येवं प्रतिहन्ति । यदि वा यद् यद् अविधिकथनं तत्र तत्रेदमुपतिष्ठति-अत्रापि श्रेयो 10 नास्तीति, तथाहि-अक्षरकोविद पर्षदि पक्ष-हेतु-दृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिः, इतरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलम्, कर्मबन्धश्च, न पुनः श्रेयः, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च सावज्ज-ऽणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं काउं ? ॥ [ ] स्यादेतत्-कथं तर्हि धर्मकथा कार्या ? इत्युच्यते-केऽयमित्यादि । यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषः ? मिथ्यादृष्टिरुत भद्रकः ? केन वाऽऽशयेनायं पृच्छति ? कं च देवताविशेषं नतः ? किमनेन दर्शनमाश्रितम् ? इत्येवमालोच्य यथायोग्यमुत्तरकालं 20 कथनीयम् । एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः, क्षेत्रतः किमिदं क्षेत्रं तच्चन्निकैर्भागवतैरन्यैर्वा तज्जातीयैः १. गुणोऽपीत्याह-ख । २. एत्थ इत्यादि ख, एत्थमित्यादि च । ३. पर्षदमविदित्वा ख च । ४. धर्मकथक० ग । ५. कथम् ? घ ङ । ६. एत्थं पि इत्यादि ख च । ७. धर्मकथकः ग । ८. ★ ★ एतादृगाकृत्यन्तर्गतः पाठः ग-चप्रत्योनास्ति । ९. अत्रापि न विद्यते घ ङ। १०. ०परिषदि ग घ ङ । ११. इतरस्या वान्यथेति ग । १२. वुत्तुं घ ङ। १३. के यं इत्यादि ख च । १४. धर्मकथकेनासौ ग । १५. पुरुषः इति खप्रतौ नास्ति। १६. वा ग । १७. विशेषं न नतः ? घ । १८. कथनम् । एतदु० ख । १९. तच्चनिकैर्भागवतैर्वा ख, तच्चनिकै० घ । 15
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy