SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः ३१७ न पुनरयं नियमः-एकरूपतयैव कथनीयम्, तथाहि-यो यथा बुध्यते तस्य तथा कथ्यते । बुद्धिमतो निपुणम्, स्थूलबुद्धेस्त्वन्यथेति । राज्ञश्च कथयना तदभिप्रायमनुवर्तमानेन कथनीयम्, 'किमसावभिगृहीमिथ्यादृष्टिः, अनभिगृहीता वा संशीत्यापन्नो वा ? अभिगृहीतोऽपि कुतीथिकव्युद्ग्राहितः, स्वत एव वा ?' तस्य चैवम्भूतस्य यद्येवं कथयेद् यथा देशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ [मनुस्मृति० ८५] तद्भक्तिविषयरुद्रादिदेवतादारुवनचरितकथने च मोहोदयात् तथाविधकर्मोदये कदाचिदसौ द्वेषमुपगच्छेत्, द्विष्टश्चैतद् विदध्यादिति, आह च अवि य इत्यादि । अपि सम्भावने-आस्तां तावद् वाचा नाम अनाद्रियमाणो हन्यादपि, चशब्दाद् अन्यदप्येवंजातीयं क्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तं च__ तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो वा ।। निविसयं व नरिंदो करेज्ज संघं पि सो कुद्धो ॥ [ ] तथा-तच्चन्निकोपासको नन्दावलाकुक्षिमुद्भिद्य बुद्धो जातः इति । बुद्धोत्पत्तिकथानकात्, भागवतो वा भल्लिगृहोपाख्यानात्, रौद्रो वा पेढालपुत्रसत्यक्युमादिव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमक-काणकुण्टादिर्वा कश्चित् तमेवोद्दिश्योद्दिश्याधर्म फलोपप्रदर्शनेनेति । १. ०बुद्धेरन्यथेति क । २. कुतीर्थिकैय॒द्ग्राहितः क-गपुस्तके ऋते । ३. दशशूनासमश्चक्री दशचक्रिसमो ध्वजः घ ङ । ४. ०देवताभवन-दारुवन० घ, ०देवताभवनचरिता ङ। ५. "दारुवन इति नाट्यारम्भः" जै०वि०प० । ६. ०कर्मोदयात् क । ७. प्रद्वेष० ग वरद ८. प्रद्विष्ट० ख । ९. अ ख । १०. अपिः ख घ ङ । ११. "निद्रवणमिति मारणम् जे०वि०प० । १२. च ग । १३. कुट्ठो ग । १४. तच्चनिको० ङ । १५. नन्दबलाद् बुद्धोत्पत्तिकथानकात्, कआदर्श विना, "नन्दा(न्द ?)बलाद् इति नन्दा कुक्षिमुद्रिद्य सञ्जाता" जे०वि०प०, "णंदबलाए बुद्धप्पत्तीए" चूर्णौ । १६. "इ( भ )ल्लिगृह इति राजकुमारण भल्ल्या विद्धा नरकं गतः" जै०वि०प० । १७. ०सत्यक्युमाव्यतिकरा० कपुस्तकमृते । १८. तमेवोद्दिश्याधर्म० क ख ग, तमेवोद्दिश्य धर्म० च । १९. ०फलोपदर्शनेनेति ग घ ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy