SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३१६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तदेवं सम्यक्त्वस्वरूपमाख्यातम् । कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति 5 जहा एक [ सू०१०२] जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति । जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति । अवि य हणे अणातियमाणे । एत्थं पि जाण सेयं ति णत्थि । केऽयं पुरिसे कं च णए । [सू०१०३] एस वीरे पसंसिए जे बद्धे पडिमोयए, 10 उड़े अहं तिरियं दिसासु, से सव्वतो सव्वपरिणाचारी ण लिप्पति छणपदेण वीरे। जहा पुन्नस्स इत्यादि । तीर्थकर-गणधरा-ऽऽचार्यादिना येन प्रकारेण पुण्यवतः सुरेश्वर-चक्रवर्ति-माण्डलिकादेः कथ्यते उपदेशो दीयते तथा तेनैव 15 प्रकारेण तुच्छस्य द्रमकस्य काष्ठहारकादेः कथ्यते । अथवा पूर्णः जाति-कुल रूपाद्युपेतः, तद्विपरीतः तुच्छः । विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तं च ज्ञानैश्वर्य-धनोपेतो जात्यन्वय-बलान्वितः ।। तेजस्वी मतिमान् ख्यातः पूर्णस्तुच्छो विपर्ययात् ॥ [ ] 20 एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयति एवं चक्रवादेरपि, यथा वा चक्रवर्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि । अत्र च निरीहता विवक्षिता । १. तथा इति कपुस्तके नास्ति । २. काष्ठाहारकादेः ग । ३. च इति खप्रतौ न ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy