________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः
स्यादेतत्-किम्भूतोऽसावुपदेशः ? इत्यत आह
जं दुक्खमित्यादि । यद् दुःखं दुःखकारणं वा कर्म लोकसंयोगात्मकं वा प्रवेदितं तीर्थकृद्भिरावेदितम् इह अस्मिन् संसारे मानवानां जन्तूनाम्, ततः किम् ? तस्य दुःखस्य असातलक्षणस्य कर्मणो वा कुशलाः निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमय - परसमयविद उद्युक्तविहारिणो यथावादिन - 5 स्तथाकारिणो जितनिद्रा जितेन्द्रिया देश-कालादिक्रमज्ञास्ते एवम्भूताः परिज्ञाम् उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं च उदाहरन्ति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च । किञ्च
३१५
,
इति कैम्मं इत्यादि । इति : पूर्वप्रक्रान्तपरामर्शकः यत् तद् दुःखं प्रवेदितं मनुजानाम्, यस्य च दुःखस्य परिज्ञां कुशला उदाहरन्ति तद् दुःखं कर्मकृतं तत् 10 कर्माष्टप्रकारं परिज्ञाय तदास्रवद्वाराणि च तद्यथा - ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि । प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदास्रवद्वारेषु सर्वशः सर्वैः प्रकारैर्योगत्रिक-करणत्रिकरूपैर्न वर्तेत । अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा । यदि वा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीहक्कथा ? इत्याह- 15
जे इत्यादि । अन्यद् द्रष्टुं शीलमस्येत्यन्यदर्शी, यस्तथा नासौ अनन्यदर्शी यथावस्थितपदार्थद्रष्टा । कश्चैवम्भूतः ? यः सम्यग्दृष्टिमनीन्द्रप्रवचनाविर्भूततत्त्वार्थः । यश्चानन्यदृष्टिः सः अनन्यारामः मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह-जे इत्यादि । यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तं च
शिवमस्तु कुशास्त्राणां वैशेषिक - षष्टितन्त्र - बौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः ॥ [
] इत्यादि ।
१. इत्याह ख । २. दुक्खं इत्यादि ख, दुखमित्यादि ग । ३. असातस्य कर्मणो ख । ४. च इति क- खप्रत्योर्न । ५. कमा इत्यादि क च । ६ इति च पूर्व० ख, इति पूर्व० ग च। ७. तदाश्रव० ख ङ च । ८. च, यथा ख । ९. तदाश्रव० ख ङ च । १०. वर्तते क ग ङ । ११. ०ग्दृष्टिमौनीन्द्र० ग । १२. "ण अण्णत्थारामतीति अणण्णारामो" चूर्णौ । १३. " षष्टितन्त्र इति साङ्ख्यकम्" जै०वि०प० ।
20