________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
कालसुखभावना च कारणम्, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति । अवसंश्च किम्भूतो भवति ? इत्याहतुच्छ इत्यादि । तुच्छः रिक्तः, स च द्रव्यतो निर्धनो घटादिर्वा जैलादिरहितैः, भावतो ज्ञानादिरहितः, ज्ञानरहितो हि क्वचित् संशीतिविषये 5 केनचित् पृष्टोऽपरिज्ञानाद् ग्लायति वक्तुम्, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुम्, तथाहि—प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति ।
३१४
यस्तु केषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुमुनिर्भवत्यरिक्तो न ग्लायति च वक्तुम्, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च । आह 10 च-एस इत्यादि । एषः इति सुवसुमुनिर्ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् प्रशंसितः तद्विद्भिः श्लाघित इति । किञ्च
अच्चेत्यादि । स एवं भगवदाज्ञानुवर्तको वीरः अत्येति अतिक्रामति, कम् ? लोकसंयोगं लोकेन असंयतलोकेन संयोगः सम्बन्धः ममत्वकृतस्तमत्येति । अथवा लोको बाह्योऽभ्यन्तरश्च । तत्र बाह्यो धन - हिरण्य- मातृ15 पित्रादिः । आन्तरस्तु राग-द्वेषादिः, तत्कार्यं वाऽष्टप्रकारं कर्म । तेन सार्धं संयोगम् अत्येति अतिलङ्घयतीत्युक्तं भवति । यदि नामैवं ततः किम् ? इत्याह–
एस इत्यादि । योऽयं लोकसंयोगातिक्रमः एष न्यायः एष सन्मार्गो मुमुक्षूणामयमाचारः प्रोच्यते अभिधीयते । अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात् कर्तरि घञ् नायः, यो हि त्यक्तलोकसंयोग एष एव 20 परात्मनोर्मोक्षस्य नायः प्रोच्यते मोक्षप्रापकोऽभिधीयते सदुपदेशात् ।
१. तुच्छए इत्यादि ख, तुच्छत्यादि ग । २. जलरहितः ख । ३. ०तः[ भावतो ज्ञानरहित: ], स हि क्वचित् ग । ४ ० रहितः स्वैरी, ज्ञान० ख । ५. कषाय-विषमहागद० ख। ६. सुवसुर्मुनि० ङ विना । ७. न च ग्लायति वक्तुम् ख । ८. ० ज्ञानाच्चानुष्ठानाच्च ख। ९. सुमुनि० क, सुवसुर्मुनि० ग च । १०. अच्चे इत्यादि ख । ११. स इति कपुस्तके नास्ति । १२ एव ख घ ङ । १३. ०दाज्ञानतिवर्तको ग । १४. वीरः इति क - गप्रत्योर्न वर्तते । १५. ततः ख । १६. धन-धान्य- हिरण्य० ख । १७. सार्धं यो योगस्तं योगम् अत्येति । १८. अत्येति इत्यतिलङ्घयती० ख ।