________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे स्यादेतत्-किमालम्ब्य करोति ? इत्याह-मुणीत्यादि । मुनिः त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः संयमः । यदि वा मुनेर्भावः मुनित्वं तदप्यसावेव । मौनं वा वाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् काय
मनसोरपि । अतः सर्वथा संयममादाय किं कुर्यात् ? धुनीयात् कर्मशरीरकं 5 औदारिकादिशरीरं वा । अथवा धुनीहि विवेचय पृथक्कुरु, तदुपरि ममत्वं मा विधत्स्वेति भावार्थः ।
__कथं तच्छरीरकं धूयते ? ममत्वं वा तदुपरि न कृतं भवति ? इत्याहपन्तं इत्यादि । प्रान्तं स्वाभाविकरसरहितं स्वल्पं वा, रूक्षम् आगन्तुक
स्नेहादिरहितं द्रव्यतः, भावतोऽपि प्रान्तं द्वेषरहितं विगतधूमं रूक्षं राग10 रहितमपगताङ्गार सेवन्ते भुञ्जते, के ? वीराः साधवः, किम्भूताः ? समत्व
दर्शिनः राग-द्वेषरहिताः, सम्यक्त्वदर्शिनो वा, सम्यक् तत्त्वं सम्यक्त्वं तद्दर्शिनः परमार्थदृशः, तथाहि-इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिन ऐहिकाऽऽमुष्मिकक्लेशभाजो भवन्ति ।
अनेकादेशे चैकादेश इति कृत्वा प्रान्त-रूक्षसेवी समत्वदर्शी च कं 15 गुणमवाप्नोति ? इत्याह-एस इत्यादि । एषः प्रान्त-रूक्षाहारसेवनेन कर्मादिशरीरं
धुनानो भावतो भवौघं तरतीति । कोऽसौ । मुनिः यतिः । अथवा क्रियमाणं कृतम् इति कृत्वा तीर्ण एव भवौघम् । कश्च भवौघं तरति ? यः मुक्तः सबाह्याभ्यन्तर-परिग्रहरहितः । कश्च परिग्रहान्मुक्तो भवति ? यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः । ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स 20 एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिः अधिकारपरिसमाप्तौ ।
ब्रवीमि इति पूर्ववत् । यश्च मुक्तत्व-विरतत्वाभ्यां न विख्यातः स किम्भूतो
१. मुणि इत्यादि ख च । २. कर्मशरीरं ख ङ । ३. पंतं क-गपुस्तके विना । ४. ०रहितमल्पं वा ख च । ५. ०त-द्वेषरहितमपगता० क । ६. किम्भूताः इति क-घप्रत्यो स्ति । ७. "अनेक(का)देशे इति 'धी(वी? )रा' इत्यत्र बहुवचननिर्देशे सति'' जै०वि०प । ८. सम्यक्त्वदर्शी च कं गुणं समा( म )वाप्नोति ? ग । ९. एष इति प्रान्त० ख च । १०. भवति इति क-घ-ङप्रतिषु न । ११. ०अधिकारसमाप्तौ ग ।