________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः ३११ निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति नापि दुष्टेषु द्वेषं तस्मात् शब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् अहियासमीणे त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः । एतदुक्तं भवति-मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति नापीतरान् द्वेष्टि । आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यम्, तत्राप्यभिसहनं विधेयमिति, उक्तं च
सद्देसु य भद्दय-पावएसु सोयविसयं उवगएसु । तुटेण व रुटेण व समणेण संया न होयव्वं ॥ [ ] एवम्-रूंवेसु य भद्दय-पंतएसु० [ ] तथा गंधेसु य० [ ]
इत्यादि वाच्यम् । ततश्च शब्दादीन् विषया नभिसहसमानः किं कुर्यात् ? 10 इत्याह-निविद इत्यादि । इहोपदेशगोचरो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः-निर्विन्दस्व जुगुप्सस्व ऐश्वर्य-विभवात्मिका मनसस्तुष्टिर्नन्दिः ताम्, इह मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दिः तुष्टिः प्रमोदो वा यथा-ममैतत् समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवं विकल्पजनितां नन्दि जुगुप्सस्व यथा-'किमनया पापोपादानहेतुभूतया- 15 ऽस्थिरया ?' इति, उक्तं च
विभव इति किं मदस्ते ? च्युतविभवः किं विषादमुपयासि ? । करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ [ ]
एवं रूप-बलादिष्वपि वाच्यं सनत्कुमारदृष्टान्तेन । अथवा पंञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोति अनागतं प्रत्याचष्टे ।
20
१. शब्दादिविषयेषु ख । २. दुष्टे द्वेषं च । ३. अहियासमाणे घ ङ च । ४. ०प्यतिसहनं कप्रतिमृते । ५. विधेयं समतेति, उक्तं च ख । ६. सया य नो हव्वं ङ। ७. होतव्वं ख । ८. रूयेसु व भद्दय-पावएसु० ग, रूएसु य च । ९. ०पंतयेसु घ ङ। १०. तया ख-चप्रती विना । ११. अ च । १२. नतिसहमान: कआदर्शमृते । १३. ०गोचरापन्नो विनेयो० ख ग च । १४. पुष्टिः ग । १५. वा इति खप्रतावेव । १६. ०ति इत्येवं च । १७. नन्दी ग घ च । १८. ०दानभूतया क घ ङ। १९. इति इति खचप्रत्यारेव । २०. करनिहत० ग। २१. ०दृष्टान्तेनेति । अथवा ख च । २२. “पञ्चानाम् इति महाव्रतानाम्" जै०वि०प० । २३. ०प्यतिचरणमतीतं ख।