SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३१० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किम्भूतो भवति ? इत्याह[ सू०९८ ] णारतिं सहती वीरे, वीरे णो सहती रतिं । जम्हा अविमणे वीरे तम्हा वीरे ण रज्जति ॥ 5 [सू०९९] सद्दे फासे अधियासमाणे णिव्विद णंदि इह जीवयस्स । मुणी मोणं समादाय धुणे कम्मसरीरगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो ॥ एस ओघंतरे मुणी तिण्णे मुत्ते विरते वियाहिते त्ति 10 बेमि । नाईमित्याद्यनुष्टुप् । तस्य हि त्यक्तगृह-गृहिणी-धन-हिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात्, तामुत्पन्नां संयमविषयां न सहते न क्षमते । कोऽसौ ? विशेषेणेरयति प्रेरयति अष्टप्रकारं कर्मारिषड्वर्गं वेति वीर: शक्तिमान् । स एव वीरोऽसंयमे विषयेषु 15 परिग्रहे वा या रतिरुत्पद्यते तां न सहते न मर्षयति, या चारतिः संयमे, विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु रज्यति, अतो रत्यरतिपरित्यागाद् न विमनस्को भवति, नापि रागमुपयातीति दर्शयति-यस्मात् त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद् वीर: न रज्यति शब्दादिविषयग्रामे न गार्यं विदधाति । यत एवं ततः किम् ? इत्याह-सद्दे इत्यादि । यस्माद् वीरो रत्यरती १. ०परिग्रहयोगो घ ङ च । २. णाई इत्याद्य० ख च । ३. साधोः इति खपुस्तके न। ४. अष्टप्रकारकर्मारि० ग । ५. चेति ख च । ६. स एवासंयमे ख। ७. मर्षति कप्रति विना । ८. विषये च ग । ९. ०भूतो न शब्दादिषु च । १०. ०षु न रज्यते ग । ११. भवति इति क-घ-ङप्रतिषु नास्ति । १२. धीरस्तत्कारणाद् ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy