________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः ३०९ मतिस्तां यः परिग्रहविपाकज्ञः जहाति परित्यजति स ममायितं स्वीकृतं परिग्रहं जहाति परित्यजति । इह द्विविधः परिग्रहः-द्रव्यतो भावतश्च । तत्र परिग्रहमतिनिषेधाद् आन्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काक्वा नीयते–यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति । 5 ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावाद् नगरादिसम्बद्धपृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव । यदि नामैवं ततः किम् ? इत्याह___से हु इत्यादि । यो हि मौक्षेकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः, दृष्टो ज्ञानादिको 10 मोक्षपथो येन स दृष्टपथः, यदि वा दृष्टभयः अवगतसप्तप्रकारभयः, शरीरादेः परिग्रहात् साक्षात् पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयत इति ।
एतदेव पूर्वोक्तं स्पष्टयितुमाह-जस्सेत्यादि । यस्य ममायितं स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः । किञ्च
15 तमित्यादि । तं पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय मेधावी ज्ञातज्ञेयो विदित्वा लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणम्, वान्त्वा उद्गीर्य लोकस्य प्राणिगणस्य संज्ञा दशप्रकाराऽतस्ताम्, स इति मुनिः, किम्भूतः ? मतिमान् सदसद्विवेकज्ञः पराक्रमेथाः संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग् विदध्या इति 20 यावत् । अथवाऽष्टप्रकारं कर्मारिषड्वर्गं वा विषय-कषायान् वा पराक्रमस्वेति । इति अधिकारपरिसमाप्तौ, ब्रवीमि इति पूर्ववत् ।
___. जहाति त्यजति घ । २. परित्यजति इति पाठो ग-चप्रत्योर्न वर्तते । ३. ० भ्यन्तरपरिग्रहं घ । ४. परिग्रहं त्यजति ग । ५. ०सम्बन्धपृथ्वी० ग घ ङच । ६. ०पृथिवी० ख । ७. जिनकल्पस्येव क। ८. ०भ्रमकारणात च। ९. ज्ञानादिमोक्षपथोग। १०. मोक्षपन्था ङच । ११. ०नीपद्यतेऽतः ख। १२. परिग्रहत्यागे ग । १३. ०मवसीयते । एतदेव ख । १४. तं इत्यादि ख । १५. ०ऽष्टप्रकारकर्मारि० च । १६. अधिकारसमाप्तौ ख ग । १७. इति इति गपुस्तके नास्ति ।