________________
३०८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे - [सू०९७] पडिलेहाए णो णिकरणाए । एस परिणा पवुच्चति कम्मोवसंती।
जे ममाइयमतिं जहाति से जहाति ममाइतं ।
से हु दिट्ठपहे मुणी जस्स णत्थि ममाइतं । 5 तं परिण्णाय मेहावी विदित्ता लोगं, वंता लोगसण्णं, से मतिमं परक्कमेज्जासि त्ति बेमि ।
पडि इत्यादि । एतत् संसारचक्रे स्वकृतकर्मफलेश्वराणामसुमतां गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः 10 साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तद् निकरणं निकार: शारीर-मानसदु:खोत्पादनं तरमै, नो कर्म कुर्यात्, येन प्राणिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति भावार्थः ।
____ एवं च सति किं भवति ? इत्याह-एस इत्यादि । येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा एतत् तत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः 15 शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति ।
एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवति ? इत्याह-कम्मोवसंती, कर्मणाम् अशेषद्वन्द्ववातात्मकसंसारतरुबीजभूतानाम् उपशान्तिः उपशमः, कर्मक्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति ।
___ अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मीयग्रह:, तदपनोदार्थमाह-जे मेमाइय इत्यादि । ममायितं मामकं तत्र मतिर्ममायित
१. ०चक्रवाले स्वकृत० क-चपुस्तके विना । २. ०कर्मेश्वराणा० ख । ३. नानावस्था ख । ४. ०निवृत्तिपरिज्ञा ख । ५. निमित्तफल ख, निर्वृत्तिफल० ग । ६. प्राणिनिकारे परिहते सति ख । ७. कमोत्यादि कर्मणाम् क, कम्मोवसन्ती च । ८. ०बीजानाम् ख । ९. च इति खपतो नास्ति । १०. ०स्य प्रकरणस्य मूल० ख । ११. ममाइयमित्यादि गप्रतिमृते ।