________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः ३०७ घातकारिणमारम्भमारभते सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तं च
दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः ।
यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ [प्रशम० गा० ४०] ___ यदि वा मूढः हिता-ऽहितप्राप्ति-परिहाररहितो विपर्यासमुपैति हितमप्यहितबुद्ध्याऽधितिष्ठति अहितं च हितबुद्धयेति । एवं कार्या-ऽकार्य-पथ्या- 5 ऽपथ्य-वाच्या-ऽवाच्यादिष्वपि विपर्यासो योज्यः । इदमुक्तं भवति-मोह अज्ञानं मोहनीयभेदो वा तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत् तदारभते येन शारीर-मानसदुःख-व्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह
सएण इत्यादि । स्वकीयेन आत्मना कृतेन प्रमादेन मद्यादिना, विविधम् 10 इति मद्य-विषय-कषाय-विकथा-निद्राणां स्वभेदग्रहणम् तेन पृथक् विभिन्न व्रतं करोति । यदि वा पृथु विस्तीर्णं वयमिति वैयन्ते पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् स वयः संसारः तं प्रकरोति, एकैककाये दीर्घकालावस्थानात् । यदि वा कारणे कार्योपचारात् स्वकीयनानाविधप्रमादकृतेन कर्मणा वयः अवस्थाविशेषस्तमेकेन्द्रियादि-कलला-ऽर्बुदादि-तदहर्जात- 15 बालादि-व्याधिगृहीत-दारिद्रय-दौर्भाग्य-व्यसनोपनिपातादिरूपं प्रकर्षेण करोति विधत्त इति । .
तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीड्यन्ते इति दर्शयितुमाहजंसिमे इत्यादि । यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा इमे प्रत्यक्षगोचरीभूताः प्राणाः इत्यभेदोपचारात् 20 प्राणिनः प्रव्यथिता: नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनः ततः किम् ? इत्याह
१. ०कारणमारभते घ । २. सएणमित्यादि ख । ३. वयन्ति च । ४. एकैकस्मिन् काये ख च, एकैके काये ग । ५. ०कालावस्थानम् । यदि घ ङ च । ६. स्वकीयेन नानाविध० ग। ७. जंसिमेत्यादि ख च । ८. विशेषा इमे ग ।