________________
३०६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे द्रष्टव्यः, प्रतिज्ञालोपात् चानृतः, न च तेन व्यापाद्यमानेनासुमताऽऽत्मा व्यापादकाय दत्तः तीर्थकरेण वाऽनुज्ञातः, अतः प्राणिनः प्राणान् गृह्णन्नदत्तग्राही, सावद्योपादानात् च पारिग्रहिकः, परिग्रहाच्च मैथुन-रात्रीभोजने अपि गृहीते, यतो नापरिगृहीतमुपभुज्यते परिभुज्यते वेति, अतोऽन्यतराम्भे षण्णामप्यारम्भः । अथवाऽनावृतचतुरालवद्वारस्य कथं चतुर्थ-षष्ठव्रतावस्थानं स्यात् ? अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति । अथवैकतरमपि पापसमारम्भं य आरभते स षट्स्वन्यतरस्मिन् कल्पते योग्यो भवति, अकर्तव्यप्रवृत्तत्वात् । अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्स्वन्यतरस्मिन्
कल्पते प्रभवति, पौन:पुण्येनोत्पद्यत इत्यर्थः । स्यात्-किमर्थमेवंविधं पापकं 10 कर्म समारभते ? तदुच्यते
सुहट्टी लालप्पमाणे, सुखेनार्थः सुखार्थः, स विद्यते यस्यासाविति मत्वर्थीयः । स एवम्भूतः सन् अत्यर्थं लपति पुनः पुनर्वा लपति लालप्यते वाचा, कायेन धावन-वल्गनादिकाः क्रियाः करोति, मनसा च तत्साधनो
पायांश्चिन्तयति, तथाहि-सुखार्थी सन् कृष्यादिकर्मभिः पृथिवीं समारभते, 15 स्नानार्थमुदकम्, वितापनार्थमग्निम्, धर्मापनोदार्थं वायुम्, आहारार्थी वनस्पति
त्रसकायं वेत्यसंयतः, संयतो वा रससुखार्थी सचित्तं लवण-वनस्पति-फलादि गृह्णाति, एवमन्यदपि यथासम्भवमायोज्यम् ।
स चैवं लालप्यमानः किम्भूतो भवति ? इत्याह-सएण इत्यादि । यत् तद् उप्तमन्यजन्मनि दुःखतरुकर्मबीजं तद् आत्मीयं दु:खतरुकार्यमाविर्भावयति, 20 तच्च तेनैव कृतमित्यात्मीयमुच्यते । अंतस्तेन स्वकीयेन दुःखेन स्वकृत
कर्मोदयजनितेन मूढः परमार्थमजानानः विपर्यासमुपैति सुखार्थी प्राण्युप
१. वा नानुज्ञात: ग, चाननुज्ञातः च । २. परिग्रहिकः ग, पारिग्राहिक: घ ङ। ३. ०ने परिगृहते क, ०ने अपि] परिगृहीते ङ । ४. ०ते इति, अतो० ग । ५. चेति च । ६. ०राश्रव० ख ङ च । ७. ०षष्ठावस्थानं ख । ८. षट्स्वन्यतरप्रवृत्तः ख-चप्रती ऋते । ९. इत्याद्यर्थः ख । १०. पापं कर्म घ । ११. सुहत्थी ख । १२. लालप्पमीणे ख ग च । १३. क्रिया विधत्ते, मनसा ख । १४. स्नानाद्यर्थ० ख । १५. चेत्यसंयतः ख ङ च । १६. सच्चित्तं घ च । १७. ०त्यात्मीयमित्युच्यते ख । १८. ततस्तेन ग ।