________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः ३०५ समनुजानीयादित्यवधारणफलम् । अपरेणापि न कारयदित्याह
न कारवे इत्यादि अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेत् । एतदुक्तं भवति-प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुन-परिग्रह-क्रोध-मानमाया-लोभ-राग-द्वेष-कलहा-ऽभ्याख्यान-पैशून्य-परपरिवादा-ऽरतिरतिमायामृषावाद-मिथ्यादर्शनशल्यरूपभष्टादशप्रकारं पापं कर्म स्वतो न कुर्यात्, 5 नाप्यपरेण कारयेत्, एवकारात् चापरं कुर्वन्तं न समनुजानीयात्, योगत्रिकेणापि [इति ?] भावार्थः ।
स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढोकते, आहोस्विन्न ? इत्याह
सिया तत्थेत्यादि । स्यात् कदाचित् तत्र पापारम्भे एकतरं पृथिवी- 10 कायादिसंरम्भं विपरामशति पृथिवीकायादिसमारम्भं करोति । एकतरं वा आश्रवद्वारं परामृशति आरभते । स षट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः । इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि वर्तमानो यस्मिन्नेव पर्यालोच्य ते तस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्तत इति भावार्थः । 15
कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्तते इत्येवं मन्यते ? कुम्भकारशालोदकप्लावन-- दृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति । अथवा प्राणातिपा तास्रवद्वारविघटनाद् एकजीवातिपाताद् एककायातिपाताद् वाऽपरजीवातिपाती
१. ०दिति, आह च ख ग ङ । २. कारयेदित्युक्तं भवति । प्राणातिपात० खचपुस्तके ऋते । ३. ०परिग्रहरात्रिभोजन-क्रोध० क ग । ४. एवकाराद्वापरं क। ५. स्यात् तत्र कदाचित् ख-गप्रती विना । ६. ०कायादिसमारम्भं करोति । एक० क, कायादि विपरामृशति ख, ०कायादिसमारम्भं विपरामृशति ग । ७. आस्रवद्वारं ग घ ङ । ८. यस्मिन्नेव प्रवृत्तो वालोच्यते तस्मिन्नेव द्रष्टव्य इति । इदमुक्तं ख । ९. पृथ्वी० ग । १०. ०ष्वास्रव० ग घ ङ । ११. प्रवर्तमानो घ ङ च । १२. ०ते सर्वस्मिन्नेव कल्प्यते ङ। १३. ०ते, स सर्वस्मिन्नपि वर्तत ख । १४. कथं पुनरन्यतरस्मिन् ख । १५. वर्तते एवं मन्यते क ग च। १६. नैवाप्कायसमा० ख । १७. ०समारम्भे भवति ङ। १८, ०ताश्रव० ख ।