________________
३०४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
उक्तः पञ्चमोद्देशकः । साप्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धःसंयमदेहयात्रार्थं लोकमनुसरता साधुना लोके ममत्वं न कर्तव्यम् इत्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते । अस्य चानन्तरसूत्रसम्बन्धो वाच्यः
'नैवमनगारस्य जायते' इत्यभिहितम् एतदेवात्रापि प्रतिपिपादयिषुराह5 [सू०९५] से तं संबुज्झमाणे आयाणीयं समुट्ठाए तम्हा पावं कम्मं णेव कुज्जा ण कारवे ।।
[ सू०९६] सिया तत्थ एकयरं विप्परामुसति छसु अण्णयरम्म कप्पति सुहट्ठी लालप्पमाणे सएण दुक्खेण मूढे विप्परियासमुवेति । सएण विप्पमाएण पुढो वयं पकुव्वति 10 जंसिमे पाणा पव्वहिता ।
से तं संबुज्झमाणे इत्यादि । यस्यानगारस्यैतत् पूर्वोक्तं न जायते सः अनगारः । तत् प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा । सम्बुध्यमानः
अवगच्छन् ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च परिहरन् । आदातव्यम् 15 आदानीयम्। तच्च परमार्थतो भावादानीयं ज्ञान-दर्शन-चारित्ररूपं तद् उत्थाय इत्यनेकार्थत्वाद् आदाय गृहीत्वा । अथवा सः अनगारे एव तत् आदानीयम् ज्ञानाद्यपवर्गकारणम् इत्येवं सम्यगवबुध्यमानः सम्यक् संयमानुष्ठानेन उत्थाय सर्वं सावद्यं कर्म न मया कर्तव्यम् इत्येवं प्रतिज्ञामन्दरमारुह्य । क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यात् ? इत्याह
तम्हा इत्यादि । यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात् तमादाय पापं पापहेतुत्वात् कर्म क्रियां 'न कुर्यात् स्वतः' मनसाऽपि न
१. तं ख ग । २. संबुज्झमाण ख-चप्रती विना । ३. प्राण्युपघातचिकित्सोप० ख । ४. वा ग । ५. ०र इत्येतत् आ० क घ ङ, ०र एतत् आ० ग च । ६. ज्ञानाद्यपवर्गककारणम् घ ङ । ७. सर्वं सावद्यकर्म मया न कर्तव्यम् ख ङ सर्वसावद्यं कर्म न ग, सर्वसावद्यकर्म न घ, सर्वं सावद्यकर्म न च । ८. तदादाय च । ९. क्रियां स्वतो न कुर्यात् मनसा ख च ।