________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः ३०१ श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणम्
राजगृहे नगरे मगधसेना गणिका । तत्र कदाचिद् धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः । तद्रूप-यौवन-गुणगण-द्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः । तेन चाय-व्ययाक्षिप्तमानसेनाऽसौ नावलोकिताऽपि । अस्याश्चात्मीयरूप-यौवन-सौभाग्यावलेपाद् महती दुःखासिकाऽभूत् । 5 ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिकाकारणम् ? केन वा सार्धमुषितेति । सा त्ववादीत्-अमरेणेति । कथमसावमर: इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत् तथैवाद्याप्यास्त इति । अतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवत् कि यासु प्रवर्तन्त इति ।
__ यश्चामरायमाणः कामभोगाभिलाषुकः स किम्भूतो भवति? इत्याह-अट्ट 10 इत्यादि । अत्तिः शारीर-मानसी पीडा, तत्र भव आर्त्तः, तमार्तममरायमाणं कामार्थं महाश्रद्धावन्तं प्रेक्ष्य दृष्ट्वा पर्यालोच्य वा कामा-ऽर्थयोर्न मनो विधेयमिति । पुनरप्यमरायमाण-भोगश्रद्धावतः स्वरूपमुच्यते
अपरिन्नाएत्यादि । कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तेत्र दत्तावधानः कामस्वरूपापरिज्ञया वा क्रन्दते भोगेष्वप्राप्त-नष्टेषु काङ्क्षा-शोकावनुभवतीति, 15 उक्तं च
चिन्ता गते भवति साध्वसमन्तिकस्थे, मक्ते त तप्तिरधिका रमितेऽप्यतृप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति ॥ [
] इत्यादि । 20
१. उदाहरणमिदमत्रस्थाने केचिदेव भणन्ति, न तु चूर्णिकृत्पूर्ववर्तिनः सर्वे आचार्याः, तथा च घृणिः-"तत्थ उदाहरणं केई भणंति" । २. नगरे इति क-गप्रत्योर्न । ३. धननिचयेन च । ४. तद्रूप-गुणगण० च । ५. ०व्ययक्षिप्तमानसेन नाव० ख । ६. तां इति गपुस्तके नास्ति । ७. निरूपितो यावत् ग च । ८. तथैवास्त इति क च । ९. प्रसक्त्या क । १०. इत्याह च क। ११. कामार्थमहा० ख ग च । १२. सम्प्रेक्ष्य ख । १३. पुनरमराय० ख-गप्रती ऋते । १४. अपरिणाए इत्यादि ख ग । १५. तत्तद्दत्तावधानः ख । १६. भवतीत्यर्थः, उक्तं च ख ।