________________
३०२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तदेवमनेकधा कामविपाकमुपदोपसंहरति-से यमित्यादि । से ति तदर्थे, तदपि हेत्वर्थे, यस्मात् कामा दुःखैकहेतवः तस्मात् तद् जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णीकुरुतेति भावार्थः । ननु च
कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्ध्यत्येव ! इत्येतदा5 शङ्क्याह
___ तेइच्छमित्यादि । कामचिकित्सां पण्डितः पण्डिताभिमानी प्रवदन् अपव्याधिचिकित्सामिवोपदिशन्नपर: तीथिको जीवोपमर्दै वर्तत इत्याह-से हंता इत्यादि । स इत्यविदिततत्त्वः कामचिकित्सोपदेशक: प्राणिनां हन्ता दण्डादिभिः,
छेत्ता कर्णादीनां भेत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिना विलुम्पयिता 10 अवस्कन्दादिना अपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा
व्याधिचिकित्सा वाऽपरमार्थदृशां सम्पद्यते । किञ्च-अकृतं यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्ये इत्येवं मन्यमानो हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः । अतो य एवम्भूतमुपदिशति यस्याप्युप
दिश्यते उभयोरप्येतयो रपथ्यत्वाद् अकार्यमिति । आह च–जस्स वि य 15 णमित्यादि । यस्याप्यसावेवम्भूतां चिकित्सां करोति, न केवलं स्वस्य इत्यपिशब्दार्थः, तैयोर्द्वयोरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः । . अतो अलं पर्याप्तं बालस्य अज्ञानस्य सङ्गेन कर्मबन्धहेतुना कर्तुरिति । योऽप्येतत् कारयति बालः अज्ञस्तस्याप्यलमिति सण्टङ्कः । एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्त्वस्य न भवतीत्याह-“न एवमित्यादि । एवम्भूतं
१. काममुपदो० ख । २. त्ति घ ङ च । ३. तदुपदेशं ख-चपुस्तके विना । ४. कर्णे कुरुतेति ख ग च । ५. इत्याशङ्क्याह ख । ६. तेइच्छं इत्यादि ख च । ७. वर्तेत ख। ८. ग्रन्थच्छेदनादिना ख ग ङ । ९. "अवस्कन्दादिना धाटीप्रभृतिना" स०वि०प० । १०. प्राणव्यपरोपणात् नान्यथा ख ग च । ११. व्याधिचिकित्सनं वा ग । १२. एवम्भूत उपदिशति ङ। १३. ०रपथ्यकारित्वाद् ख । १४. य इति कप्रतो नास्ति, य णं इत्यादि ख च । १५. तयोरपि घ । १६. अज्ञस्य ख च । १७. यो वैतत् ख च । १८. ण एवं इत्यादि ख च । १९. एवम्भूतप्राण्यु० ङ।