________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
अथवा कस्यतेऽस्मिन्निति कासः संसारस्तं कषतीति तदभिमुखो यातीति कासङ्कषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेति आह - बहुमायी, कासङ्कषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति । ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-कडेण मूढे, करणं कृतं तेन 5 मूढः किङ्कर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि
10
३००
15
सोउं सोवणकाले मज्जणकाले य मैज्जिउं लोलो ।
जेमेउं च वराओ जेमणकाले न चाएइ ॥ [
]
६
अत्र मम्मणवणिग्दृष्टान्तो वाच्यः । स चैवं कासङ्कषो बहुमायी कृतेन मूढस्तत् तत् करोति येनात्मनो वैरानुषङ्गो जायत इत्याह
पुंणो तं करेइत्यादि । मायावी परवञ्चनबुद्ध्या पुनरपि तत् लोभानुष्ठानं तथा कंरोति येनात्मनो वैरं वर्धते । अथवा तं लोभं करोति अर्जयति येन जन्मशतेष्वपि वैरं वर्धते इति, उक्तं च
दुःखार्तः सेवते कामान् सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं प्रसङ्गस्तेषु न क्षमः ॥ [
]
किं पुनः कारणमसुमांस्तत् करोति येनात्मनो वैरं वर्धते ? इत्याहजमिणमित्यादि । यद् इति यस्मात् अस्यैव विशरारो: 'शरीरस्य परिबृंहणार्थं प्राणघातादिकाः क्रियाः करोतीति । ते च तेनोपहताः प्राणिनः पुनः शतशो घ्नन्ति । अतो मयेदं कथ्यते - कासङ्कषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत् करोति येनात्मनो वैरं वर्द्धयतीति । यदि वा यद् इदं मयोपदेशप्रायं 20 पौनःपुण्येन कथ्यते तद् अस्यैव संयमस्य परिबृंहणार्थम् । इदं चापरं कथ्यतेअमरायइ इत्यादि । अमरायते अनमरः सन् द्रव्य-यौवन-प्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते । कौऽसौ ? - महाश्रद्धी, महती चासौ
१४
१. बहुमाई ग । २. ग्रहणेऽन्येषामपि ग । ३. सोयणकाले ख ग । ४. मज्जियं ग । ५. ०काले य न (नो) चाए ग । ६. स एव ख स एवं च । ७. तत् इति ग घ ङप्रतिषु न वर्तते । ८. इत्याह च ख घ च । ९. तं । १०. करोतीति घ । ११. करोतीति क- खपुस्तके विना । १२ वर्धयति ख, वर्धयते ग । १३. शरीरकस्य क - चप्रती विना । १४. अम[य]ई इत्यादि क, अमरा इत्यादि ख ।