________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २९९ 'अकडं करिस्सामि' त्ति मण्णमाणे, जस्स वि य णं करेइ ।
अलं बालस्स संगेणं, जे वा से कारेति बाले । ण एवं अणगारस्स जायति त्ति बेमि ।
॥ लोगविजयस्स पंचमो उद्देसओ सम्पत्तो ॥ कासंकसे इत्यादि । यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् 5 स एवम्भूतोऽयं पुरुषः सर्वदा किङ्कर्तव्यताकुलः 'इदमहमकार्षमिदं च करिष्ये' इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दः अवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वाद् असंव्यवहारित्वम्, अतीता-ऽनागतयोश्च 'ईंदमहमकार्षमिदं च करिष्ये' इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च
इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयन्निह कार्याणि, प्रेत्यार्थं नावबुध्यते ॥ [ ] अत्र दधिघटिकाद्रमकदृष्टान्तो वाच्यः, स चायम्
= मकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धः तद् दधीकृत्य चिन्तयामास-ममातो घृत-वेतनादि यावर्या -ऽपत्योत्पत्तिः । ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिः । एवं वा चिन्तामनोरथव्याकुली- 15 कृतान्त:करणेन वृद्ध्यानयने शिरोविण्टलिकाचीवरे आदीयमाने 'ईव शिरो विधूयाऽऽस्फोटिता दधिघटिकेति । एवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित् पुण्याय दत्तम् एवमन्योऽपि कासंकस: किङ्कर्तव्यतामूढो निष्फलारम्भो भवतीति ।
१. कासंकासे ख ग । २. ०स्रोतसि ग । ३. इदमकार्ष० ग । ४. श्वः करिष्यामि वा( चा? )परम् । चिन्तयन् कार्यकार्याणि, प्रेत्यार्थं चूर्णौ । ५. चिन्तयन्निति ख च । ६. द्रमकः इति खपुस्तके नास्ति । ७. कश्चिन्महिषी० ग । ८. भार्या अपत्योत्पत्ति: घ ङ । ९. ०प्रहारेण दधिघटिकाव्यापत्तिरिति । तत० ख च । १०. ०करण इति पाठान्तरम्, वृद्ध्यानयने शिरो विधूय स्फोटिता ग । ११. इव इति खप्रतौ न, चआदर्श पाठभङ्गः । १२. तेन तद्दधि न भक्षितं ख ग च । १३. कस्यचित् ग । १४. काषङ्कषः घ ङ । १५. भवति ग ।