SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २९८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कुर्यात् ? इत्याह से मइममित्यादि । स पूर्वोक्तो यति: मतिमान् श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यात् ? इत्याह ___ मा य हु इत्यादि । मा प्रतिषेधे, चः समुच्चये, हु: वाक्यालङ्कारे, 5 ललतीति लाला अत्रुट्यन्मुखश्लेष्मसन्ततिः, तां प्रत्यशितुं शीलमस्येति प्रत्याशी । वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सद-ऽसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत् त्यक्त्वा मा भोगान् प्रत्याशी:, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किञ्च- . मा तेसु तिरिच्छ इत्यादि । संसारश्रोतांसि अज्ञाना-ऽविरति10 मिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाण श्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयम्, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः, तत्राप्रमादवता भाव्यम्, प्रमादवांश्चेहैव शान्ति न लभते, यत आह [सू०९३] कासंकसे खलु अयं पुरिसे, बहुमायी, 15 कडेण मूढे, पुणो तं करेति लोभं, वेरं वड्डेति अप्पणो । जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणताए । अमरायइ महासड्डी । अट्टमेतं तु पेहाए अपरिणाए कंदति । [सू०९४ ] से तं जाणह जमहं बेमि । तेइच्छं पंडिए पवयमाणे से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवइत्ता १. स च । २. मइमं इत्यादि ख ग च । ३. त्यक्त्वा भोगान् मा प्रत्याशी: ख । ४. प्रत्यश्नीहि, क-खआदर्शा ऋते, खप्रतौ तु प्रत्यशान इति लिखितपाठं निष्काश्य प्रत्याशी: इति विशोधितम्, प्रत्यश्नीहि इत्येतत्पाठस्योपरि "प्रत्यशान'' इति चप्रतौ टिप्पणी । ५. किञ्च इति गप्रतौ न । ६. मा या तिरिच्छ क, मा तिरिच्छ ख ग । ७. ०स्रोतांसि ग । ८. वा इति घ-ङप्रत्योरेव । ९. ०मापादयेत्, ग घ ङ ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy