________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः
२९७
इति चेत्, तत्त्वाविर्भावनेन । स्यादेतत्-तदेव किम्भूतम् ? इत्याह- जहा अंतो इत्यादि । यथा स्वकायस्य अन्तः मध्येऽमेध्यकलल- पिशिता - ऽसृक्पूत्यादिपूर्णत्वेनाऽसारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं
च
यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् ।
दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥ [ ] इति ।
यथा वा बहिरसारता तथाऽन्तोऽपीति । किञ्च - अंतो अंतो इत्यादि । देहस्य मध्ये मध्ये पूत्यन्तराणि पूतिविशेषान् देहान्तराणि देहस्यावस्थाविशेषान् इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूति - देहान्तराणि पश्यति यथावस्थितानि परिच्छिनत्तीत्युक्तं भवति । यदि वा देहान्तराण्येवम्भूतानि 10 पश्यति
पुढो इत्यादि । पृथगपि प्रत्येकमपि अपिशब्दात् कुष्ठाद्यवस्थायां यौगपद्येनापि श्रवन्ति नवभिः श्रोतोभिः कर्णा - ऽक्षिमल - श्लेष्म- लालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणित-र्यादीनि चेति। यद्येतानि ततः किम् ?
पंडिते पडिलेहाए, एतान्येवम्भूतानि गलच्छ्रोतोव्रणरोमकूपानि पण्डितः अवगततत्त्वः प्रत्युपेक्षेत यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तं चमंस-ऽट्ठि-रुहिर-पहारूवणद्धकलमलय-मेय-मज्जासु ।
पुण्णम्मि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ 'संचारिमजंतगलंतवच्चमुत्तंतसेयपुण्णमि । देहे होज्जा किं रागकारणं असुइहेउम्मि ।। [ ] इत्यादि । तदेवं पूति-देहान्तराणि पश्यन् पृथगपि श्रवन्तीत्येवं प्रत्युपेक्ष्य किं
5
१. स्यात् तत् तदेव ख । २. ०नासारत्वमेवं ख । ३. इति इति खपुस्तके नास्ति । ४. मज्जा वेत्यादि ग घ ङ । ५. स्स्रवन्ति क- खप्रती विना । ६. स्रोतोभिः ग घ ङ । ७ तथा पर० ख ङ च । ८. चेति । एतानि च किम् ? ख । ९. ०मेत० ग । १०. ०बीभत्से ख च । ११. संसारिम० ङ । १२. हुज्जा ग घ ङ । १३. पश्य पृथगपि ख । १४. स्त्रवन्ती ग घ ।
15
20