________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
एंवमूर्द्ध-तिर्यग्भागयोरपि वाच्यम् । यदिवा लोकविदर्शी इति कामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह-—
२९६
गंढिए इत्यादि । अयं हि लोको गृद्धः अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्तमानो भूयो भूयस्तदेवाऽऽचरंस्तज्जनितेन वा कर्मणा संसारचक्रे 5 अनुपरिवर्तमानः पर्यटन् आयतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्तनाय प्रभवति । यदि वा कामगृद्धान् संसारेऽनुपरिवर्तमानानसुमतः पश्य इत्येवमुपदेशः। अपि च—–
15
सैंधीत्यादि । इह मर्त्येषु मनुजेषु यो ज्ञानादिको भावसन्धिः, स च मर्त्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषय- कषायादीन् 10 परित्यजति स एव वीर इति दर्शयति
ऐस इत्यादि । एषः अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कर्मविदारणात् प्रशंसितः स्तुतः विदिततत्त्वैरिति । स एवम्भूतः किमपरं करोति ? इति चेद्
इत्याह
-
जे बद्धे इत्यादि । यो बद्धान् द्रव्य - भावबन्धनेन स्वतो विमुक्तो अपरानपि मोचयतीति । एतदेव द्रव्य-भावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टे—
"जैहा अंतो तहा बहिमित्यादि । यथाऽन्तर्भावबन्धनमष्टप्रकारं कँर्मनिगडनं मोचयति एवं पुत्र - कलत्रादि बाह्यमपि । यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति । यदि वा कथमसौ मोचयति ?
१. एवमूर्ध्व० ग घ ङ । २. गडिए क । ३. संसारचक्रवाले अनु० ख । ४. ०य न प्रभवति ? यदि ग । ५. संधित्यादि ख, संधि इत्यादि घ ङ संधी इत्यादि च । ६. एस एव इत्यादि क । ७. ० लोकस्वभावविभागदर्शी च । ८. ०त्यक्तभोगतर्षो ख । ९. चेद् इति घङप्रत्योर्नास्ति । १०. ०बन्धनतः स्वतो ख । ११. मोचयति । ख । १२. ० विमोक्षणं वाचो ग १३. जह ख । १४. बाहिं इत्यादि ख । १५. ० प्रकारकर्म० घ ङ च । १६. कर्मनिगडं ख ग । १७. वा इति खपुस्तके न । १८. बाह्यं बन्धनं क ।