________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २९५ [सू०९१] आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उर्दू भागं जाणति, तिरियं भागं जाणति, गढिए अणुपरियट्टमाणे ।।
संधिं विदित्ता इह मच्चिएहिं, एस वीरे पसंसिते जे बद्धे पडिमोयए । [ सू०९२ ] जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो।
अंतो अंतो पूति-देहंतराणि पासति पुढो वि सवंताई । पंडित पडिलेहाए ।
से मतिमं परिणाय मा य हु लालं पच्चासी । मा तेसु तिरिच्छमप्पाणमावातए ।
आयतचक्खू, आयतं दीर्घमैहिका-ऽऽमुष्मिकापायदर्शि चक्षुः ज्ञानं यस्य स आयतचक्षुः । कः पुनरित्येवम्भूतो भवति ? यः कामानेकान्तेनाऽनर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति । किञ्च
लोगवियस्सी, लोकं विषयानुषङ्गावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी । अथवा लोकस्य 15 ऊर्धा-ऽध-स्तिर्यग्भागगतिकारणायुष्क-सुख-दुःखविशेषान् पश्यतीति । एतद् दर्शयति
लोगस्सेत्यादि । लोकस्य धर्मा-ऽधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः यादृक् च तत्र सुख-दुःखविपाको भवति तं जानाति, 20
10
१. स भवति आयत० ख । २. पुनश्चैवम्भूतो ख, पुनरेवम्भूतो ङ। ३. ०नार्थभूयिष्ठान् ख। ४. लोगविपस्सी कप्रति विना। ५. ऊर्ध्वा० ख घ ङ। ६. लोगस्स इत्यादि ख। ७. यादृक्षः तत्र क. याहक तत्र ग च । ८. भवतीति संजानाति ग, भवतीति जानाति घ ङ।