SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तिप्पत्ति तिपृ तेपृ क्षरणार्थी, [पा०धा० ३६२-३६३] तेपते क्षरति सञ्चलति मर्यादांतो भ्रश्यति निर्मर्यादो भवतीति यावत् । तथा शारीर - मानसैर्दुखैः पीड्यते । तथा पैरि समन्ताद् बहिरन्तश्च तप्यते परितप्यते पश्चात्तापं करोति, यथेष्टपुत्र5 कलत्रादौ कोपात् क्वचिद् गते ' स मया नानुवर्तितः' इति परितप्यते इति । सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि । 15 २९४ अथवा शोचत इति यौवन-धन-मद-मोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन 10 पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च 20 भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद् यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ [ ] तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामा विपत्तेर्भवति, हृदयदाही शल्यतुल्यो विपाकः ॥ [ कः पुनरेवं न शोचते ? इत्याह ] इत्यादि । १. " तप्पति त्ति काय - वाय-मणेहि त्ति तिहि तप्पति" चूर्णौ । २. भ्रश्यते क ग च । ३. परिः क-गप्रती विना । ४. ०पं वा करोति कपुस्तकमृते । ५. यथेष्टे पुत्र० घ ङ च । ६. इति इति खप्रतावेव । ७. ०गमनहेतुर्दुर्गतिमार्गे ( र्ग? )परिघो ख । ८. भवित्रीं भावानां घ ङ च। ९. पुनरित्येवं क ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy