________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तिप्पत्ति तिपृ तेपृ क्षरणार्थी, [पा०धा० ३६२-३६३] तेपते क्षरति सञ्चलति मर्यादांतो भ्रश्यति निर्मर्यादो भवतीति यावत् । तथा शारीर - मानसैर्दुखैः पीड्यते । तथा
पैरि समन्ताद् बहिरन्तश्च तप्यते परितप्यते पश्चात्तापं करोति, यथेष्टपुत्र5 कलत्रादौ कोपात् क्वचिद् गते ' स मया नानुवर्तितः' इति परितप्यते इति । सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि ।
15
२९४
अथवा शोचत इति यौवन-धन-मद-मोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन 10 पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च
20
भवित्रीं भूतानां परिणतिमनालोच्य नियतां,
पुरा यद् यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने,
तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ [
]
तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च
सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामा विपत्तेर्भवति, हृदयदाही शल्यतुल्यो विपाकः ॥ [
कः पुनरेवं न शोचते ? इत्याह
] इत्यादि ।
१. " तप्पति त्ति काय - वाय-मणेहि त्ति तिहि तप्पति" चूर्णौ । २. भ्रश्यते क ग च ।
३. परिः क-गप्रती विना । ४. ०पं वा करोति कपुस्तकमृते । ५. यथेष्टे पुत्र० घ ङ च । ६. इति इति खप्रतावेव । ७. ०गमनहेतुर्दुर्गतिमार्गे ( र्ग? )परिघो ख । ८. भवित्रीं भावानां घ ङ च। ९. पुनरित्येवं क ग ।