SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः आगासे गंगसोउ व्व पडिसोउ व्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअव्वो महोयही ॥ वालुगाकवलो चेव, निरासाए हु संजमे । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥ [ ] इत्यादि येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमा - 5 विष्कुर्वन्नाह - कामकामीत्यादि । कामान् कामयितुम् अभिलषितुं शीलमस्येति कामकामी, खलुः वाक्यालङ्कारे, अयम् इत्यध्यक्षः पुरुषः जन्तुः 1 यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीर-मानसान् दुःखविशेषाननुभवतीति दर्शयति-— یا से सोयईत्यादि । स इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे 'वा 10 स्मृत्यनुषङ्गः 'शोकस्तमनुभवति । अथवा शोचते इति काममहाज्वरगृहीतः सन् प्रैलपतीति, उक्तं च ते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ? ॥ [ इत्यादि शोचते । तथा-जूरइ ति हृदयेन खिद्यते, तद्यथा प्रथमतरमथेदं चिन्तनीयं तवासीद्, बहुजनदयितेन प्रेम कृत्वा जनेन । हँतहृदय ! निराश ! क्लीब ! सन्तप्यसे किं ?, न हि जड ! गततोये सेतुबन्धाः क्रियन्ते ॥ [ २९३ इत्येवमादि । तथा— ] १. गंगासोउ क, गंगसोय ख । २. चेय क । ३. चेवा, णिरस्सातो हु संजमो चूर्णौ । ४. निरस्साए उ सं० ख, निरासाए सुसं० ङ । ५. येन च कारणेन कामा क । ६. दुरभिक्रमा ग । ७. प्रागेवाभ्यधायि ख । ८. पुरुष इति जन्तुः ख । ९. ० विधाविरतचेताः ख । १०. सोयमित्यादि ख च । ११. ईप्सितार्थस्या० ख । १२. च ङ । १३. शोकः, शोचते इति ग । १४. प्रलपति ख । १५. तिरः ग । १६. इत्येवमादि ख । १७. हृतहृदय ! च । 15 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy