________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः
आगासे गंगसोउ व्व पडिसोउ व्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअव्वो महोयही ॥ वालुगाकवलो चेव, निरासाए हु संजमे ।
जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥ [
] इत्यादि
येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमा - 5 विष्कुर्वन्नाह - कामकामीत्यादि । कामान् कामयितुम् अभिलषितुं शीलमस्येति कामकामी, खलुः वाक्यालङ्कारे, अयम् इत्यध्यक्षः पुरुषः जन्तुः 1 यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीर-मानसान् दुःखविशेषाननुभवतीति दर्शयति-—
یا
से सोयईत्यादि । स इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे 'वा 10 स्मृत्यनुषङ्गः 'शोकस्तमनुभवति । अथवा शोचते इति काममहाज्वरगृहीतः सन् प्रैलपतीति, उक्तं च
ते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ? ॥ [
इत्यादि शोचते । तथा-जूरइ ति हृदयेन खिद्यते, तद्यथा
प्रथमतरमथेदं चिन्तनीयं तवासीद्,
बहुजनदयितेन प्रेम कृत्वा जनेन ।
हँतहृदय ! निराश ! क्लीब ! सन्तप्यसे किं ?,
न हि जड ! गततोये सेतुबन्धाः क्रियन्ते ॥ [
२९३
इत्येवमादि । तथा—
]
१. गंगासोउ क, गंगसोय ख । २. चेय क । ३. चेवा, णिरस्सातो हु संजमो चूर्णौ । ४. निरस्साए उ सं० ख, निरासाए सुसं० ङ । ५. येन च कारणेन कामा क । ६. दुरभिक्रमा ग । ७. प्रागेवाभ्यधायि ख । ८. पुरुष इति जन्तुः ख । ९. ० विधाविरतचेताः ख । १०. सोयमित्यादि ख च । ११. ईप्सितार्थस्या० ख । १२. च ङ । १३. शोकः, शोचते इति ग । १४. प्रलपति ख । १५. तिरः ग । १६. इत्येवमादि ख । १७. हृतहृदय ! च ।
15
20