SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे जहेत्थेत्यादि । लब्ध्वा कर्मभूमिं मोक्षपादपबीजभूतां च बोधि सर्वसंवरचारित्रं च प्राप्य तथा विधेयं यथा कुशलः विदितवेद्यः अत्र अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेदिति । एवं चोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था 5 यदुत यत् स्वयं प्रतिज्ञातं तद् अन्त्योच्छ्वासं यावद्विधेयमिति, उक्तं च लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ [ ] इतिशब्दः अधिकारसमाप्त्यर्थः । ब्रवीमि इति, सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासताऽश्रावीति । परिग्रहादात्मानमपसर्पयेदित्युक्तम्, तच्च न 10 निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदोऽसुकरः । यत आह कामा इत्यादि । कामा द्विविधाः-इच्छाकामा मदनकामाश्च । तत्रेच्छाकामा मोहनीयभेदहास्य-रत्युद्भवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्यन्ति । ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणम्, तत्सद्भावे च न कामोच्छेद 15 इत्यतो दुःखेनातिक्रमः अतिलकनं विनाशो येषां ते तथा । ततश्चेदमुक्तं भवति न तत्र प्रमादवता भाव्यम् । न केवलमत्र, जीवितेऽपि न प्रमादवता भाव्यमिति, आह च जीवियमित्यादि । जीवितम् आयुष्कं तत् क्षीणं सत् दुष्प्रतिबृंहणीयं दुः अभावार्थे, नैव वृद्धि नीयते इति यावत् । अथवा जीवितं संयमजीवितम्, 20 तत् दुष्प्रतिबृहणीयं कामानुषक्तजनान्तर्वतिना दुःखेन वृद्धि नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यत इति, उक्तं च १. स्वतः ख । २. सोऽहं ब्रवीमि इति पाठो ग-चप्रत्योर्नास्ति । ३. द्विधा घ । ४. मोहनीयहास्य० ख । ५. च इति खपुस्तके न । ६. ०पि प्रमादवता न भवितव्यमिति ख । ७. च इति ङप्रतो नास्ति। ८. दुःखं प्रतिबंहणीयं ग । ९. इति यावत् इति पाठ: कआदर्श न वर्तते। १०. दुःखेन निष्प्रत्यूहः ग च । ११. ०मः पाल्यत ख, ०मः प्रतिपाल्य इति च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy