________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २९१
नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः
अवि अप्पणो वि देहम्मि नायरंति ममाइउं । [ ] ___ यदिह परिगृहीतं कर्मबन्धायोपकल्पते स परिग्रहः, यत् तु पुनः कर्मनिर्जरणार्थं प्रभवति तत् परिग्रह एव न भवतीति । आह च
5 अन्नहा णमित्यादि । * णमिति वाक्यालङ्कारे अन्यथा इत्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् । यथा ह्यविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथा ह्ययमस्याशयः-आचार्यसत्कमिदमुपकरणं न ममेति, राग-द्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यः, न धर्मोपकरणम्, तेन विना संसारार्णवपारागमनादिति, उक्तं च
साध्यं यथा कथञ्चित् स्वल्पं कार्य, महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥ [ ]
अत्र चार्हताभासैोटिकैः सह महान् विवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह
एस मैग्गे इत्यादि । धर्मोपकरणं न परिग्रहायेति एषः अनन्तरोक्तो मार्गः 15 आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः तीर्थकृतस्तैः प्रवेदितः कथितः, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौदगलि-स्वातिपत्राभ्यां शौद्धोदनं ध्वजीकृत्य प्रकाशितः इत्यनया दिशाऽन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवमुत्पादयितुमार्यैः प्रवेदित इत्युक्तम् । अस्मिश्चार्य प्रवेदिते मार्गे प्रयत्नवता भाव्यमिति । आह च- 20
10
१. ०मित्येवं साधूनां ख च । २. परिग्रहयोगो० ङ । ३. यप्पणो च । ४. ०योपकल्प्यते ग च । ५. यस्तु पुनः क घ, यत् पुनः ग । ६. च इति गपुस्तके नास्ति । ७. अण्णहा णं इत्यादि ख च । ८. ★★ एतच्चिह्नान्तर्वर्ती पाठः खपुस्तके न वर्तते । ९. ०र्बोटिकाभासैः सह ख । १०. तीर्थङ्करा० ख ङ। ११. मग्ग खप्रतिमृते । १२. एषः इति क-चप्रत्योास्ति । १३. "तड्डिा ट्टि )का इति तलगटी, लम्बनिका इति परियछि । त्रिगव्यम्[?], अश्ववालधिवालादिः इति काष्ठसिंगी'' जै०वि०प० । १४. इति इति खप्रतौ न । १५. ०प्रवेदितमार्गे ख । १६. च इति चपुस्तके नास्ति ।