________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे माम्, मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति । अपि तु तयोर्लाभा-ऽलाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च
लभ्यते लभ्यते साधुः साधुरेव न लभ्यते ।
अंलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥ [ ] इत्यादि । 5 तदेवं पिण्ड-पात्र-वस्त्राणामेषणाः प्रतिपादिताः । साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह
बह पि इत्यादि । बह्वपि लब्ध्वा न निहे त्ति न स्थापयेत, न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः । न
केवलमाहारसन्निधिं न कुर्यात्, अपरमपि वस्त्र-पात्रादिकं संयमोपकरणातिरिक्तं न 10 बिभृयादिति । आह
___ परीत्यादि । परिगृह्यत इति परिग्रहः धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानम् अपष्वष्केत् अपसर्पयेत् । अथवा संयमोपकरणमपि मूर्च्छया परिग्रहो भवति, मुच्छा परिग्गहो वुत्तो [ ] इति वचनात् । तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवद् मूच्र्छा न कुर्यात् ।
ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो न स चित्तकालुष्यमृते भवति, तथाहि-आत्मीयोपकारिणि रागः, उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ निर्दिष्टौ, ताभ्यां च कर्मबन्धः, ततः कथं परिग्रहो धर्मोपकरणम् ? उक्तं च
ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यश:-सुखपिपासितैरयमसावनर्थोत्तरैः, परैरपशदः कुतोऽपि कथमप्यपाकृष्यते ॥'' [
20
१. लभेयमिति ख । २. साधु साधु चैव न घ ङ। ३. अलाभे तपसो वृद्धिाभे तु ख । ४. ०ब्धे देहस्य धारणा चूर्णौ । ५. बहुं पीत्यादि ख च । ६. णिभे च । ७. सन्धीयत क। ८. ०त इत्येव, ख । ९. सन्निधिं विदध्यादि० क । १०. अवशक्यात् ख, अपष्वष्कयेत् ग । ११. "मूर्छा च परिग्रहः' इति व० ख, "मूर्छा परिग्रहः' इति व० ग घ ङ च । १२. च इति खप्रतौ न । १३. नेदिष्टौ क खपुस्तके ऋते, "नेदिष्टौ निकटौ'' जै०वि०प० । १४. तत् कथं ख च, ततः कथं न परिग्रहो ग। १५. ०रपसदः क-गपुस्तके विना ।