________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २८९ शय्यातरावग्रह: सार्मिकावग्रहश्चेति । अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः । अत एवासौ नि!ढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्पते । तथा कटासनम्, कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादि विष्टरमिति, आस्यते स्थीयतेऽस्मिन्निति आसनं शय्या, ततश्चासनग्रहणेन शय्या सूचिता, अत एवासौ निर्यढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु 5 गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवसि तथा परिव्रजेरिति भावार्थः । एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन् यावल्लाभं गृह्णीयाद् उत कश्चिन्नियमोऽप्यस्ति ? अस्तीत्याह
लद्धे इत्यादि । लब्धे प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम्, अन्यस्मिन्नपि वस्त्रौषधादिके अनगारः भिक्षुः मात्रां जानीयात्, यावन्मात्रेण गृहीतेन 10 गृहस्थः पुनरारम्भे न प्रवर्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथाभूतां मात्रामवगच्छेदिति भावः । एतच्च स्वमनीषिकया नोच्यत इत्यह आह
से जहेयमित्यादि । तद्यथा इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद् भगवता ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेव-मनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्य प्रवेदितं प्रतिपादितं सुधर्मस्वामी 15 जम्बूस्वामिने इंदमचाष्टे । किञ्चान्यत्
लाभो त्ति इत्यादि । 'लाभो वस्त्रा-ऽऽहारादेर्मम संवृत्तः, अहोऽहं लब्धिमान्' इत्येवं मदं न विदध्यात् । न च तदभावे शोकाभिभूतो विमनस्को भूयादिति, आह च
अलाभो त्ति इत्यादि । अलाभे सति शोकं न कुर्यात् । कथम् ? धिग् 20
१. अनेनावग्रह० ख च । २. “[ अवग्रहप्रति? ]मा इति अवग्रहविशेषाः" जै०वि०प० । ३. क्रियते ख ग च । ४. संस्तारको ग च । ५. वाऽऽसनं कप्रतेविना । ६. तत आसन० खचपुस्तके ऋते । ७. समस्तान्यपि ख च । ८. भवति तथा परिव्रजेदिति ख ग । ९. च आरम्भ० च । १०. ० प्रकृतेषु क । ११. ०प्यस्ति ? इत्याह ख ग च । १२. जहेयं इत्यादि ख च । १३. ०भ्यानन्तरं सूत्रं क । १४. ०या स्वभाषा० ख । १५. पर्षदि ख च । १६. इदमाह। ख । १७. संवृत्त इत्यतोऽहं लब्धि० ख च, संवृत्त इत्यतोऽहोऽहं लब्धिमान् इत्येवं न मदं विद० ग । १८. च इति ख-ग-चप्रतिषु न ।