________________
२८८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
जे जेत्तिया उ हेऊ भवस्स ते चेव तैत्तिया मोक्खे । गणणाईया लोया दोण्ह वि पुण्णा भवे तुल्ला ॥ [ ] इत्यादि ।
अयंसंधीत्यारभ्य काले अणुट्ठाइ त्ति यावदेतेभ्यः सूत्रेभ्य एकादशभ्यः पिण्डैषणा निर्मूढा इति ।
___एवं त_प्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नम्-न क्वचित् केनचित् प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आह
हओ छेत्ता णियाइ, द्विधा इति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञान-दर्शन-चारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा 10 भिक्षाद्यर्थं वा, एतदुक्तं भवति–राग-द्वेषौ च्छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये
व्यत्यय इति । स एवम्भूतो भिक्षुः कालज्ञो बलज्ञो यावद् द्विधा छिन्दन् किं कुर्यात् ? इत्याह
वत्थं पंडिग्गहं इत्यादि यावत् एएसु चेव जाणिज्जा । एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात् शुद्धा-ऽशुद्धतया 5 परिच्छिन्द्यात् । परिच्छेदश्चैवमात्मक:-शुद्धं गृह्णीयादशुद्धं परिहरेदिति यावत् । किं
तज्जानीयात् ?-वस्त्रम्, वस्त्रग्रहणेन वस्त्रैषणा सूचिता । तथा पतद्ग्रहं पात्रम्, एतद्ग्रहणेन च पात्रैषणा सूचिता । कम्बलमित्यने नाऽऽविक: पात्रनिर्योगः कल्पश्च गृह्यते । पादपुञ्छनकमित्यनेन च रजोहरणमिति । एभिश्च सूत्रै
रोघोपधिरौपग्रहिकश्च सूचितः । तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूँढा । तथा 0 अवगृह्यत इत्यवग्रहः, स च पञ्चधा-देवेन्द्रावग्रह: राजावग्रह: गृहपत्यवग्रहः
१. जत्तिया घ ङ च । २. य ख । ३. चेय क, च्चेय च। ४. तेत्तिया घ, तित्तिया ङ। ५. मुक्खे घ । ६. गणणातीता ख च । ७. दुण्ह घ ङ। ८. काले णुट्ठाइ त्ति ख च । ९. "नियूंढा इति द्वितीयस्कन्धे प्रथमाध्ययने उद्देशरूपा (पाः)" जै०वि०प० । १०. इति इति खपुस्तके नास्ति । ११. ०व्यातिरिव ख । १२. इत्याह ग । १३. दुहउ च्छित्ता ग, दुहओ छित्ता घ ङ च । १४. णिआदि ख, णियाति च । १५. च्छित्त्वा [णियान्? ] किं क । १६. पडिग्गहमित्यादि ग घ ङ । १७. तद्विजानीयात् ? ख-चआदर्शा ऋते । १८. ०नाधिकः चपुस्तकमृते । १९. ०निर्यागः ग । २०. नियूंढा च ।