________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २८७ किमर्थं पुनरभिधीयते इति ? नैष दोषः, तत्र हि ज्ञपरिजैव केवलाऽभिहिता, कर्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा, कर्तव्यकाले कार्यं विधत्त इति । किञ्च
अपडिन्ने, नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दकाचार्येण स्वशिष्ययन्त्रपीलनव्यति- 5 करमालोक्य सबल-वाहन-राजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयाद् बाहुबलिना प्रतिज्ञा व्यधायि यथा-कथमहं शिशून् स्वभ्रातृनुत्पन्ननिरावरणज्ञानांश्छद्मस्थः सन् द्रक्ष्यामि ? इति, तथा मायोदयाद् मल्लिस्वामिजीवेन यथाऽ परयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका 10 अपि प्रतिज्ञाः कुर्वन्ति । अथवा अप्रतिज्ञः अनिदानो वसुदेववत् संयमानुष्ठा नं कुर्वन् निदानं न करोतीति । अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैतद्भविष्यतीत्येवं प्रतिज्ञां न करोतीत्यप्रतिज्ञः । यदि वा स्याद्वादप्रधानत्वाद् मौनीन्द्रागमस्यैकपक्षावधारणं च प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि-मैथुनविषयं विहायान्यत्रं न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम्
न य किंचि अणुण्णायं पडिसिद्धं वा वि जिणवरिंदेहिं । मोत्तुं मेहुणभावं न तं विणा राग-दोसेहिं । दोसा जेण निरुब्भंति जेण झिज्जंति पुवकम्माइं । सो सो मोक्खोवाओ रोगावत्थासु समणं व ॥
15
१. किमयं पुन० ख । २. ०ज्ञा काले कार्यं घ ङ । ३. अप्पडिन्ने क ङ । ४. स्कन्दाचार्येण ख । ५. ०पीडनमवलोक्य ख, ०पीडनव्यतिकरमवलोक्य च । ६. ०प्रतिज्ञाभ्यधायि ख । ७. मल्लिस्वामिनाऽभ्यधायि यथाऽपरजनविप्र० ख । ८. यथा परयति० ग ङ च । ९. ०नप्रतिज्ञा घ ङ। १०. कुर्वते कआदर्श विना । ११. ०नं करोतीति ग । १२. करोति । ङ। १३. ममैवेतद्भ० ङ च । १४. च इति चप्रतौ न । १५. ०ज्ञा तस्मात् तद्रहितो० ख, ०ज्ञा तस्माद्रहितो० ग । १६. ० क्वचिन्नियमवती प्रतिज्ञा न विधेया घ । १७. न विणा तं राग० च । १८. निरंभंति क, निरूभंते ग, निरुज्झंति ङ, निरज्जंति च । १९. सिझंति क । २०. मुक्खो० घ ।