________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्मपिण्डश्चेति १६ । तथा दशैषणादोषाः, ते चामी - शङ्कित १- प्रक्षित २निक्षिप्त ३ - पिहित ४ - संहत ५ - दायक ६ - उन्मिश्रा ७ - परिणत ८ - लिप्त ९ - 5 उज्झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिकरनिकरावलीढगलत्स्वेद बिन्दुकक्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहित: - किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति ? स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाद् जलस्नानं प्रतिषिद्धम्, तथा 10 चार्षम्—
२८६
स्नानं मद-दर्पकरं कामाङ्गं प्रथमं स्मृतम् ।
तस्मात् कामं परित्यज्य नैव स्नान्ति दमे रताः ॥ [ ] इत्यादि । तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानाऽनाकुलो भवति । तथा भावन्ने, भावः चित्ताभिप्रायो दातुः श्रोतुर्वा, तं जानातीति भावज्ञः । किञ्च - परिग्गहं 15 अममायमिीणे, परिगृह्यत इति परिग्रहः संयमातिरिक्तमुपकरणादि, तम् अममीकुर्वन् अस्वीकुर्वन् मनसाऽप्यनाददान इति यावत् । स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्राज्ञः खेदज्ञः क्षणकज्ञो विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किम्भूतो भवतीत्याह- काले अणुट्ठाई, यद् यस्मिन् काले कर्तव्यं तत् तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी, कालानतिपात20 कर्तव्योद्यतः । ननु चास्यार्थस्य से भिक्खू कालन्ने इत्यनेनैव गतार्थत्वात्
१. ० षाश्चोभयापादिता ख च । २ ० तीव्रतरणि० ग घ ०तीव्रतरतरणिकरावलीढ० ङ। ३. ०बिन्दुक: क्लिन्न० ख घपुस्तके ऋते । ४. तथा चोक्तम् ग, तथा चार्षम् इति चप्रतौ न विद्यते । ५. प्रश्ने उत्तरदानाकुलो क प्रश्ने उत्तरप्रदानकुशलो ख, प्रश्नोत्तरदानाऽनाकुलो ग, प्रश्ने उत्तरदानकुशलो च । ६. अममायमीणो ग, अममायमाणे च । ७. संयमातिरिक्तमु( रिक्तो? )पकरणादिस्तम् कगच । ८ मनसाऽनाददान ग । ९. मात्रज्ञः क खपुस्तके विना । १०. क्षेत्रज्ञः च । ११. क्षणज्ञो घ ङप्रती ऋते । १२. काले णुट्टाई ख च काले अणुायी ग, कालो (लेs ) णुट्टाई घ, कालाणुट्ठाई ङ ।