________________
२८४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
च तदामगन्धं च सर्वामगन्धम् । सर्वशब्दः प्रकारकात्र्त्स्न्येऽत्र गृह्यते, न द्रव्यकात्स्र्त्स्न्ये । आमम् अपरिशुद्धम् । गन्धग्रहणेन तु पूँतिर्गृह्यते ।
ननु च पूतिद्रव्यस्याप्यशुद्धत्वाद् आमशब्देनैवोपादानात् किमर्थं भेदेनोपादानमिति ? सत्यम्, अशुद्धसामान्याद् गृह्यते, किन्तु पूतिग्रहणेनेहा5 धाकर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानम्, ततश्चायमर्थः–गन्धग्रहणेनाधाकर्म १ औद्देशिकत्रिकं २ पूतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यवपूरकश्च ६ एते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति ।
सर्वशब्दस्य चं प्रकारकात्स्र्न्याभिधायकत्वाद् येन केनचित् प्रकारेण 10 आमम् अपरिशुद्धं पूँति वा भवति तत् सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराम-गन्धः निर्गतावाम- गन्धौ यस्मात् स तथा परिव्रजेत् मोक्षमार्गे ज्ञानदर्शन-चारित्राख्ये पॅरि समन्ताद् गच्छेत्, संयमानुष्ठानं सम्यगनुपालयेदिति यावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत् तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिषिषेधिषुराह
15
अदिस इत्यादि । क्रयश्च विक्रयश्च क्रय-विक्रयौ तयोरदृश्यमानः । कीदृक्षश्च तयोरदृश्यमानो भवति ? यैस्तयोर्निमित्तभूतद्रव्याभावाद् अकिञ्चनः । अथवा' क्रयविक्रययोः अदिश्यमानः अनपदिश्यमानः । कश्च तयोरनपदिश्यमानो भवति ? यः 'क्रीतकृतापरिभोगी भवतीति । आह—
से कि इत्यादि । स मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् 20 स्वतः, नाप्यपरेण क्रापयेत्, क्रीणन्तमपि न समनुजानीयात् । अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकम् गन्धग्रहणेन पचनकोटित्रिकम्,
१. पूति गृह्यते ग । २. गुरुत्वात् ख । ३. उद्देशकत्रिक २ क, उद्देशिक २ ख उद्देशिकत्रिकं २ ग च । ४. मिश्रजातत्रिकं ४ ग । ५. अध्यवपूरकाश्चेति ६ क, अध्यवपूरका ६ च । ६. च इति ख प्रतौ न । ७. पूतिर्वा क । ८. परिः घ ङ । ९. प्रतिषिषेधयिषुराह च । १०. यतस्तयो० च । ११. क्रीतक्रियापरिभोगी ग ङ । १२. आह च घ च । १३. ०दित्यामग्रहणेन ख ।