________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २८३ विद्यते अगारं गृहमस्येत्यनगारः, पुत्र-दुहित-स्नुषा-ज्ञाति-धात्र्यादिरहित इत्यर्थः । सोऽनगारः, आराद् यातः सर्वहेयधर्मेभ्य इत्यार्यः चारित्रार्हः । आर्या प्रज्ञा यस्यासावार्यप्रज्ञः श्रुतविशेषितशेमुषीक इत्यर्थः । आर्य प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक्प्रहेणक-श्यामाशनादिसङ्कल्परहित इत्यर्थः । अयंसंधीति सन्धानं सन्धीयते वाऽसाविति सन्धिः, अयं सन्धिर्यस्य साधोरसा- 5 वयंसन्धिः, 'छान्दसत्वाद् विभक्तेरलुग्' इत्ययंसन्धिः यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः कर्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोग-स्वाध्याय-भिक्षाचर्याप्रतिक्रमणादिका असपत्ना अन्योन्याऽबाधयाऽऽत्मीयकर्तव्यकाले करोतीत्यर्थः । इति हेतोः यस्माद् यथाकालानुष्ठानविधायी तस्मादसावेव परमार्थं पश्यतीत्याह- 10.
अदक्खु त्ति तिव्यत्ययेनैकवचनावसरे बहुवचनमकारि, ततश्चायमर्थःयो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति । पाठान्तरं वा-अयं संधिमदक्खु, अयम् अनन्तरविशेषणविशिष्टः साधुः सन्धि कर्तव्यकालम् अद्राक्षीत् दृष्टवान्, एतदुक्तं भवति–यः परस्पराऽबाधया हिताऽहितप्राप्ति-परिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थं ज्ञातवानिति । 15 अथवा भावसन्धिः ज्ञान-दर्शन-चारित्राणामभिवृद्धिः । स च शरीरमृते न भवति, तदपि नोपष्टम्भकारणमन्तरेण, तस्य च सावधस्य परिहार: कर्तव्य इत्यत आह
से णाइए इत्यादि । स भिक्षुः तद् वा अकल्प्यं नाददीत न गृह्णीयात्, नाप्यपरम् आदापयेत् ग्राहयेत्, नापरमनेषणीयमाददतं समनुजानीयात् । अथवा सइङ्गालं सधूमं वा नाद्यात् न भक्षयेत्, नापरमादयेत्, अदन्तं वा न 20 समनुजानीयादिति । आह
सव्वामगन्धमित्यादि । आमं च गन्धश्च आमगन्धम्, समाहारद्वन्द्वः, सर्वं
५. असौ ऽ( अ )नगारः क । २. चरित्राहः च । ३. श्रुतविशेषशेमुषीकः ग । ४. प्रवर्तमानः ङ । ५. कालः इति खपुस्तके नास्ति । ६. इतिः घ । ७. हेतौ ग घ च । ८. संधिं अदक्खु अयम् अनन्तरोक्तविशेषण० ख च । ९. णाइते ख, णाईए घ ङ । १०. नाप्यपरमनेषणीयमाददानं ख ग च । ११. गंधमित्यादि कपुस्तकं विना ।