________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २८१ दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः, आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेति आदेशः प्राघूर्णकस्तदर्थं कर्मसमारम्भाः क्रियन्त इति सम्बन्धः । तथा पुढो पहेणाएत्यादि । पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थम् । तथा सामासाए त्ति श्यामा रजनी तस्यामशनं श्यामाशस्तदर्थम्, तथा पायरासाये त्ति प्रातरशनं प्रातराशस्तस्मै, 'कर्मसमारम्भाः क्रियन्त' इति सामान्योक्तावपि 5 विशेषार्थमाह-सन्निहीत्यादि । सम्यग् निधीयत इति सन्निधिः विनाशिद्रव्याणां दध्योदनादीनां संस्थापनम्, तथा सम्यग् निश्चयेन चीयत इति सन्निचयः अविनाशिद्रव्याणामभया-सिता-मृद्वीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयश्च सन्निधि-सन्निचयम्, प्राकृतशैल्या पुंलिङ्गता । अथवा सन्निधेः सन्निचयः सन्निधिसन्निचयः, स च परिग्रहसंज्ञोदयाद् आजीविकाभयाद्वा धन-धान्य- 10 हिरण्यादीनां क्रियत इति । स च किमर्थम् ? इत्याह
इहेत्यादि । इह इति मनुष्यलोके एकेषाम् इहलोककृतपरमार्थबुद्धीनां मानवानां मनुष्याणां भोजनाय उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थं कर्मसमारम्भप्रवृत्ते लोके पृथक् प्रहेणकाय श्यामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं 15 कर्तव्यम् ? इत्याह
[सू०८८ ] समुट्ठिते अणगारे आरिए आरियपण्णे आरियदंसी अयंसंधीति अदक्खु ।
से णाइए, णाइआवए, न समणुजाणए । सव्वामगंधं परिणाय णिरामगंधे परिव्वए ।
१. आदेशस्तदर्थं ख । २. पुढो पहेणाए त्ति पृथक् पृ० ख, पुढो पहेणाए इत्यादि ग, पुढो पहेणायेत्यादि घ ङ च, "पुढो पहेणाए त्ति 'पिहु' वित्थारे, अणेगप्पगारपधेह(धेणय?)त्थे" चूर्णौ । ३. ति क । ४. पायरासाए ख ग । ५. सामान्येनोक्तावपि ख-गप्रती विना । ६. सन्निही य इत्यादि ग, सन्निही इत्यादि ङ च । ७. "उ० प-सिता शर्करा' स०वि०प० । ८. इहलोकभूतपरमार्थ० च । ९. ०पुत्राद्यर्थे च ।