________________
२८०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तापनिका-प्राणातिपातरूपाणां कृषि-वाणिज्यादिरूपाणां वा, समारम्भा इति मध्यग्रहणाद् बहुवचननिर्देशाच्च संरम्भा-ऽऽरम्भयोरप्युपादानम्, तेनायमर्थ:शरीर-कलत्राद्यर्थं संरम्भ-समारम्भा-ऽऽरम्भाः क्रियन्ते अनुष्ठीयन्ते । तत्र संरम्भ इष्टा-ऽनिष्टप्राप्ति-परिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकाय5 वागव्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीषितप्राणातिपातादिक्रियानिवृत्तिरारम्भः । कर्मणो वा अष्टप्रकारस्य समारम्भाः उपार्जनोपायाः क्रियन्त इति । लोकस्य इति चतुर्थ्यर्थे षष्ठी, साऽपि तादर्थ्ये । कः पुनरसौ लोको यदर्थं संरम्भ-समारम्भा-ऽऽरम्भाः क्रियन्ते ? इत्याह-तंजहा
अप्पणो से इत्यादि । यदि वा लोकस्य तृतीयार्थे षष्ठी । यद् इति हेतौ, यस्माद् 10 लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके
साधुर्वृत्तिमन्वेषयेत् । यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तत् तद्यथेत्यादिना दर्शयति-तंजहा-अप्पणो से इत्यादि । तद्यथा इत्युपप्रदर्शनार्थे, नोक्तमात्रमेव, अन्यदप्येवञ्जातीयकं मित्रादिकं द्रष्टव्यम् । से तस्यारम्भारिप्सोर्य आत्मा शरीरं तस्मै तदर्थं कर्मसमारम्भाः पाकादयः क्रियन्ते। 15 ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितम्, न च शरीरं लोको
भवति, नैतदस्ति, यतः परमार्थदृशां ज्ञान-दर्शन-चारित्रात्मकमात्मतत्त्वं विहायान्यत् सर्वं शरीराद्यपि पराक्यमेव, तथाहि-बाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय
इति। 20 तदेवं कश्चिच्छरीरनिमित्तं कर्मारभते, अपरस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषाः
वध्वस्ताभ्यः, ज्ञातयः पूर्वा-ऽपरसम्बद्धाः स्वजनाः ताभ्यः, धात्रीभ्यो राजभ्यो
१. ०व्यापारादिजनित० ख । २. ०व्यापारादित० ङ। ३. ०निवृत्ति० ख च । ४. से इति गप्रतौ न । ५. हेतोः ख । ६. साधुवृत्ति० ग । ७. तत् इति घप्रतावेव । ८. इत्युपप्रदर्शनार्थो ग घ, इत्युपदर्शनार्थो ङ, इत्युपप्रदर्शनार्थम् च । ९. तस्मै अर्थं तदर्थं कर्म० ग च । १०. लोकार्थं समारम्भाः ग घ । ११. प्रागभ्यधायि, न ख । १२. पाराक्यमेव क घ ङ, परकीयमेव ग । १३. शरीराण्यतः ख । १४. ०ते, परस्तु च । १५. ०सम्बन्धाः क। १६. तेभ्यः खपुस्तकमृते ।