________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः २७९
उक्तश्चतुर्थो द्देशकः साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते । तस्य चायमभिसम्बन्धः-इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्तव्यमित्युक्तम् तदत्र प्रतिपाद्यते । इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहप्रतिपालनाय लोकनिश्रया विहर्तव्यम्, निराश्रयस्य हि कुतो 5 देहसाधनानि ? तदभावे धर्मश्च ? इति, उक्तं हि
धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चापि । राजा गृहपतिरपर: षट् काया गण-शरीरे च ॥ [ ]
साधनानि च वस्त्र-पात्रा-उन्ना-ऽऽसन-शयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वाद् आहारो गरीयानिति, स च लोकादन्वेष्टव्यः, लोकश्च 10 नानाविधैरुपायैरात्मीयपुत्र-कलत्राद्यर्थमारम्भप्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति
[सू०८७] जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कज्जंति । तंजहा-अप्पणो से पुत्ताणं धूताणं सुण्हाणं णातीणं धातीणं राईणं दासाणं दासीणं कम्मकराणं 15 कम्मकरीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए संणिहिसंणिचयो कज्जति इहमेगेसिं माणवाणं भोयणाए ।
जमिणमित्यादि । यैः अविदितवेद्यैः इदम् इति सुख-दुःखप्राप्तिपरिहारत्वमुद्दिश्य विरूपरूपैः नानास्वरूपैः शस्त्रैः प्राण्युपघातकारिभिर्द्रव्य- 20 भावभेदभिन्नैः लोकाय शरीर-पुत्र-दुहित-स्नुषा-ज्ञात्याद्यर्थं कर्मणां सुखदुःखप्राप्ति-परिहारक्रियाणां कायिका-5ऽधिकरणिका- प्रादोषिका- पारि
___५. प्रतायते ख । २. अस्य ग । ३. देहपरिपालनाय घ ङ। ४. उक्तं च ख ग ङ। ५. षट्कायगणः शरीरे च ख । ६. ०ऽन्न-शयनादीनि क घ ङ । ७. ०देहनिमित्तं प्रवृत्ति० क, देहार्थं वृत्ति० ख, ०देहार्थं प्रवृत्ति० च । ८. जमिणं इत्यादि ख च । ९. नानाप्रकारस्वरूपैः ख ग. चप्रता पाठपतनम् । १०. ०प्रादोषिकी-पारितापनिकी० ख । ११. ०परितापनिका० क