________________
२७८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे लाभः सन् परिणमेत्, नोच्चा-ऽवचालापैस्तत्रैव संस्तवं विदध्यात्, वैतालिकवद् दातारं नोत्प्रासयेदिति । उपसंहरन्नाह
एयमित्यादि । एतत् प्रव्रज्याऽनिर्वेदरूपम् अदानाऽकोपनं स्तोकाऽजुगुप्सनं प्रतिषिद्धनिवर्तनं मुनेरिदं मौनं मुनिभिर्मुमुक्षुभिर्वाऽऽचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् समनुवासयेः सम्यग् विधत्स्व अनुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ । ब्रवीमि पूर्ववत् ।
लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता ॥ छ ॥ छ ।
१. एयं इत्यादि ख च । २. ०भिराचरितं ख च । ३. ०येः समनुपालयेति वि० ख। ४. इति ख घ ङ विना । ५. ब्रवीमि इति पू० ङ च । ६. ०र्थोद्देशटीका च । ७. परिसमाप्ता ख च ।