________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । चतुर्थ उद्देशकः २७७ समस्तवस्तुग्राहिज्ञानाऽबाधसुखरूपं येन तद् आदानं संयमानुष्ठानं तस्मै न जुगुप्सते । तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीत्याह___ न मे इत्यादि । ममायं गृहस्थ: सम्भृतसम्भारोऽप्युपस्थितेऽपि दानावसरे न ददातीति कृत्वा न कुप्येत् न क्रोधवशगो भूयात्, भावनीयं च-ममैवैषा 5 कर्मपरिणतिरित्यलाभोदयोऽयम्, अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किञ्चित् सूयते ।
__अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याहथेवमित्यादि । स्तोकम् अपर्याप्तं लब्धं लब्ध्वा वा न निन्देद् दातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनः, भिक्षामानय, लवणाहारो 10 वाऽस्माकं नास्तीत्यन्नं ददस्व इत्येवमत्युवृत्तच्छात्रवन्न विदध्यात् ।
__ किञ्च-पंडिसेहिओ इत्यादि । प्रतिषिद्धः अदित्सितस्तस्मादेव प्रदेशात् परिणमेत् निवर्तेत, क्षणमपि न तिष्ठेत्, न दौर्मनस्यं विदध्यात्, रुण्टन्नापगच्छेत्, न तां सीमन्तिनीमपवदेत् ‘धिक् ते गृहवासम्' इति, उक्तं च
दिट्ठा सि कसेरुमइ ! अणुभूया सि कैसेरुमइ !। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणयं ॥ [ ] इत्यादि । पठ्यते च-पँडिलाभिओ परिणमेज्जा, प्रतिलाभितः प्राप्तभिक्षादि
15
१. ०ज्ञानाबन्धसुख० ग । २. ०त्याह च- ख च । ३. ०स्थिते दाना० ख । ४. न च क्रोध० च । ५. अनेनैवालाभोदयेन कर्मक्षपणार्थमुद्यतस्यैतत् क्षपणसमर्थं ख । ६. थेवं इत्यादि ख च. थोवमि० ग घ ङ। ७. वा इति खप्रतावेव । ८. तथाहि इति खप्रतौ न । ९. लवणधारो ग, लवणाधारो च । १०. पडिसेहित्तु ख। ११. ०त्, न रुण्टन्नपगच्छेत् ख च । १२-१३. कसेरुमती ख च, कसेरुमई ग घ ङ, "कसेरुमयीति नदी' जै०वि०प० । १४. तेण पाणियं वरि तुह नाम न ख । १५. म क घ ङ। १६. दंसणयमित्यादि । गप्रतेविना । १७. च इति खपुस्तके नास्ति । १८. पडिलाहिओ ग । १९. ०भिक्षालाभः क घ ।