________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । चतुर्थ उद्देशकः २७५ पडिसेहितो परिणमेज्जा। एतं मोणं समणुवासेज्जासि त्ति बेमि !
॥ लोगविजयस्स चउत्थो उद्देसओ सम्पत्तो ॥ उदाहु इत्यादि । उत् प्राबल्येन आह उदाह उक्तवान् । काम ? तीर, अपगतसंसारभयः तीर्थकृदित्यर्थः । किमुक्तवान् ? तदेव पूर्वोक्तं वाचा दर्शयतिअप्रमाद: कर्तव्यः । क्व ? महामोहे, अङ्गनाभिष्वङ्ग एव महामोहकारणत्वाद महामोह:, तत्र प्रमादवता न भाव्यम् । आह च
अलमित्यादि । अलं पर्याप्तम् । कस्य ? कशाला नि! सूक्ष्मेक्षिणः, केनालम् ? मद्य-विषय-कषाय-निद्रा-विकथारूपेण पतिधेनर प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति ।
स्यात्-किमालम्ब्य प्रमादेनालमिति ? उच्यते--संति इत्यादि। शान्तिः अशेषकर्मापगमः, अतो मोक्ष एव शान्तिरिति, म्रियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे स मरणः संसारः, शान्तिश्च मरणच शान्तिमरणम्, समाहारद्वन्द्वः । तत् सम्प्रेक्ष्य पर्यालोच्य 'प्रमादवतः संसारादपरमः 15 तत्परित्यागाच्च मोक्षः' इत्येतद्विचार्येति हृदयम्, स वा कुशलः प्रेरर ' . कषायप्रमादं न विदध्यात् । अथवा 'शान्त्या' उपशमेन 'मरणं' मरणावधि यावत तिष्ठतो यत् फलं भवति तत् पर्यालोच्य प्रमादं न कुर्यादिति ।
__ किञ्च-भेउर इत्यादि । प्रमादो हि विषय-क पाया। शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्मं स्वत एव भिद्यत इति भिदुरं स एव चमः । स्वभावो यस्य तद् भिदुरधर्मम्, एतत् समीक्ष्य पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः । एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह
१. धीर: ङ । २. तदेवं ग ङ । ३. ०मोहनी[ य ]कारणात्वाद् ङ । ४. च इति चपुस्तके नास्ति । ५. अलं इत्यादि ख । ६. ०कर्मापगमतो मोक्ष ख । ७. मरणं च घ ट; कप्रती पाठभङ्गः । ८. तं सम्प्रेक्ष्य गङ। ९. भिउर ख च । १०. हि इति ख-चप्रत्योरेव । ११. विषयाभिष्वङ्ग० ख च । १२. ते च क।