SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २७४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे यथा - एतानि स्त्र्यादीनि आयतनानि उपभोगास्पदभूतानि वर्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह-से इत्यादि । तेषां से इत्येतत् स्त्रीप्रव्यथनमायतनभणनं वा दुःखाय भवति शारीर-मानसासातवेदनोयोदयाय जायते । किञ्च - मोहाए मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा माराए मरणाय, ततोऽपि नरगाए नरकाय नरकगमनार्थम्, पुनरपि नरगतिरिक्खाए, ततोऽपि नरकादुदुवत्य तिरश्च्येतत् प्रभवति तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनम्, भोगायतनवदनं वा सर्वत्र सम्बन्धनीयम् । स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह–सययमित्यादि । सततम् अनवरतं दुःखाभिभूतो मूढो धर्मं आन्त्यादिलक्षणं दुर्गतिप्रसृतिनिषेधकं न जानाति न वेत्ति । एतच्च तीर्थकृदाहेति दर्शयति [सू०८५ ] उदाहु वीरे - अप्पमादो महामोहे, अलं कुसलस्स पमादेणं, संतिमरणं सपेहाए, भेउरधम्मं सपेहाए । गालं पास । अलं ते एतेहिं । एतं पास मुणि ! महब्भयं । णातिवातेज्ज कंचणं । [सू०८६ ] एस वीरे पसंसिते जे ण णिव्विज्जति आदाणाए । मेदेति ण कुप्पेज्जा, थोवं लद्धुं ण खिसए । १. शारीर० ग । २. से एतत् क से इति खप्रतौ नास्ति, " स इति सो स्थीवसंगी बालो, दुखाए त्ति संसारदुक्खस्स आयतणं भवति" चूर्णो । ३. ०सातावेद० घ च । ४. बन्धाय ख । ५. चेति कख । ६. मारणाय च । ७. ०गमनार्थे ख । ८ ० तिरित्ताए ख । ९. ०दुद्व खप्रतिमृते । १० तिरश्चेतत् चप्रतेविना । ११. एवमङ्गनाङ्गवि० क एवाङ्गनापाङ्गावलोकना० ख। १२. मूढो वा धर्मं ग । १३. धर्मं वा क्षा० ख । १४. ०प्रसृतनि० क घ च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy