SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे पुनरपि सहनीयो दुःखपाकस्त्वयाऽयम्, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सह गणयित्वा यद् यदायाति सम्यक्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?॥ [ ] अपि च भोगानां प्रधानं कारणमर्थः, अतस्तत्स्वरूपमेव निर्दिदिक्षुराहतिविहेण इत्यादि । त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति । सा च भोजनाय किल भविष्यति । ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति । तदपि तस्यैकदा दायादा विभजन्ते, अदत्तहारा वा हरन्ति, राजानो वा विलुम्पन्ति, नश्यति वा, विनश्यति 10 वा, अगारदाहेन वा दह्यते । इति स परस्मा अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति । एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते । तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह [ सू०८३] आसं च छंदं च विगिंच धीरे । 15 तुमं चेव तं सल्लमाहट्ट । जेण सिया तेण णो सिया । इणमेव णावबुज्झंति जे जणा मोहपाउडा । [ सू०८४] थीभि लोए पव्वहिते । ते भो ! वदंति एयाइं आयतणाई । से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खाए । सततं मूढे धम्मं णाभिजाणति । १. ०पाकस्तवाऽयं ख ग च । २. इह सह ख । ३. तिविहेणेत्यादि च । ४. अल्पा च बह्वी च ख । ५. अदत्ताहारो वा तस्य हरति ख ग घ ङ च, परं हरन्ति इति गप्रतौ अदत्तहारो इति च घप्रतो विशेषः । ६. विलुञ्चन्ति ग । ७. विमूढो ङ। ८. कर्तव्यं च तदु० 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy