SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । चतुर्थ उद्देशकः २७१ ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूम मूर्च्छा बहुमन्यमानः, तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण, गोचरीकृतो ग्लान्या, दष्टो दुःखासिकया, क्रोडीकृत: कालेन, पीडितः पीडाभिः, निरूपितो नियत्या, आदित्सितो दैवेन, अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य, द्वारि दीर्घनिद्रायाः, जिह्वाग्रे जीवितेशस्य वर्तमान:, विरलो वाचि, विह्वलो वपुषि, प्रचुरः प्रलापे, जितो जृम्भिकाभिरिति । एवम्भूतामवस्थामनुभवन्नपि महामोहोदयाद् भोगांश्चि-काङ्क्षिषुः पार्श्वोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनां 'कुरुमति ! कुरुमति !' इत्येवं व्याहरन्नधः सप्तमीं नरकपृथ्वीमगात् । तत्राणि तीव्रतरवेदनाभिभूतोऽप्यवगणय्य वेदनां तामेव कुरुमतीं व्याहरतीति । एवम्भूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, अन्येषा पुनर्महापुरुषाणामुदारसत्त्वानाम् 'आत्मनोऽन्यच्छरीरम्' इत्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि 'मयैवैतत् कृतम् सोढव्यमपि मयैव' इत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यत इति, उक्तं च उप्तो यः स्वत एव मोहसँलिलो जन्मालवालोऽशुभः, राग-द्वेष- कषायसन्तति महानिर्विघ्नबीजस्त्वया । रोगैरङ्कुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतम्, सोढा नो यदि सम्यगेष फैलिता दुःखैरधोगामिभिः ॥ [ ] १. मारणान्तिकवेदनासमुद्भूतः ( त ? ) सन्तापा० ख । २. पीतः ग घ । जृम्भाभि० ग । ४ ० वेदनावेगविगलदश्रु० ग ०वेदनावेशगलदश्रु० ख च । ५ इत्येवं त व्याह० ख ग । ६. सप्तमीनरक० क घ, सप्तमनरक० ख । ७ पृथिवी० ख च । ८. ० भूतोऽप्यविगणय्य ख च । ९. व्याहरति क ग । १०. ०त्, न पुनरन्येषां महा० खचआदर्शों विना । ११. मयैतत् घ । १२. मनः पीडो० च । १३. ० सलिलैर्जन्मालवालेऽशुभो ख ग, खप्रतौ मूलस्थः पाठः शोधितः । १४. ०महान् नि० ग च । १५. फलितो क- खप्रती O ऋते । 11
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy