________________
२७० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे पगत कर्मोपचयः, ततोऽपि पञ्चत्वम्, तस्मादपि नरकभवः, नरकाद् निषेककलल ऽर्बद-पेशी- व्यूह-गर्भ-प्रसवादिः, जातस्य च रोगाः प्रादु:ष्यन्ति । से तस्य कामानुषक्तमनसः एकदा इत्यसातावेदनीयविपाकोदये रोगसमुत्पादा इति
रोगाणां शिरोऽति-शूलादीनां समुत्पादाः प्रादुर्भावाः समुत्पद्यन्ते प्रादुर्भवन्ति । 5 तस्यां च रोगावस्थायां किम्भूतो भवत्यसौ ? इत्यत आह
जेहिं इत्यादि । यैर्वा सार्धमसौ संवसति त एवैकदा निजाः पूर्वं परिवदन्ति, स वा तान् निजान् पश्चात् परिवदेत् । नालं ते तव त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वा । इति ज्ञात्वा तु दुःखं प्रत्येकं सातं च 'स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिनः' इति मत्वा न रोगोत्पत्तौ दौर्मनस्यं भावनाया न नागाः शोचनीया इति । आह च
भोगामवेत्यादि । भोगाः शब्द-रूप-रस-गन्ध-स्पर्शविषयाभिलाषा: तानेव अनुशोचन्ति 'कथमस्यामप्यवस्थायां वयं भोगान् भुक्ष्महे ? एवम्भूता
का एकं दशाऽभूद् येन मनोज्ञा अपि विषया उपनता नोपभोगाय' इति । ईदृक्षश्चाध्यवसाय: केषाञ्चिदेव भवतीत्याह
इहमेगेसिमित्यादि । इह संसारे एकेषाम् अनवगतविषयविपाकानां ब्रह्मदत्तादीनां मानवानामेवम्भूतोऽध्यवसायो भवति, न सर्वेषाम्, सनत्कुमारादिना व्यभिचारात्, तथाहि
१. प्रसवादि ङ । २. भूतस्य च । ३. वेदनीयरोगविपाकोटये ख। 3. शरःशूलादीनां ख च । ५. आविर्भवन्ति ख च । ६. भवति ? अत आह घ ङ। ७ इत्याह ख । ८ जेहिमित्यादि ग घ ङ। ९. वसति घ । १०. "अणुव्वयंति" चूर्णी, अनुव्रजन्तीत्यर्थः । .. अयति'' चूणौं । १२. त्राणाय वा शरणाय च । १३. त्राणाय वा शरणाय घ ङ। २४ तु इति चप्रतो नास्ति । १५. "दुक्खं णाम कम्म'' चूणौँ । १६. मत्वा रोगोत्पत्तौ न दो० क-गपुस्तके ऋते । १७. इत्याह-घ ङ। १८. भोगामे इत्यादि ख विना । १९. ०रूप-गन्धरस-स्पर्श० ख च, ०रूप-रस-स्पर्श० क । २०. अनुशोचयन्ति ख च । २१. भुज्महे गचपुस्तके विना । २२. वाऽस्माकं ग । २३. इहमेगेसिं इत्यादि ख च, इयमेगेसि० घ टु । २४. इह इति संसारेऽनवगत० ख, इहा है )व संसारे एके० च । २५. अनधिगत० घ ङ। २६. ब्रह्मदत्तादीनामेवम्भूतो० ख च । २७. व्यभिचारः, तथाहि क ।