________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । चतुर्थ उद्देशकः २६९
उक्तस्तृतीयोद्देशक: साम्प्रतं चतुर्थव्याख्या प्रस्तूयते, ‘भोगेष्वनभिषक्तेन भाव्यं यतो भोगिनामपाया दर्श्यन्ते' प्रागुक्तम्, ते चामी तओ से एगया इत्यादि । अनन्तरसूत्रसम्बन्धः ‘दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ' त्ति, तानि चामूनि दुःखानि-तओ से इत्यादि । परम्परसूत्रसम्बन्धस्तु 'बाले पुण णिहे कामसमणुण्णे', ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षय- 5 भगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते __[सू०८१] ततो से एगया रोगसमुप्पाया समुप्पज्जंति । जेहिं वा सद्धि संवसति ते व णं एगया णियगा पुव्वि परिवयंति, सो वा ते णियए पच्छा परिवएज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा 10 सरणाए वा ।
[ सू०८२] जाणित्तु दुक्खं पत्तेयं सायं, भोगामेव अणुसोयंति, इहमेगेसिं माणवाणं तिविहेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुया वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगया विप्परिसिटुं संभूतं महोवकरणं 15 भवति । तं पि से एगया दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से अगारदाहेण वा से डज्झति ।
इति से परस्स अट्ठाए कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमवेति ।
तओ से एगया रोगसमुप्पाया समुप्पज्जंति । ततः इति कामानु
20
१. ०वनभियुक्तेन ख । २. कामानुषङ्गापायात् घ ङ।